पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः १]
( ४१ )
टीकाद्वयसहितम्।


दित्वादचि रङ्गो राजा । रागेऽनुरागे बद्धा चित्तवृत्तिर्यस्य सः ! सर्वत अलिखित इव । सर्वत्र तां पश्यतीत्यर्थः। ‘रङ्गो रणे खले रागे नृत्ये रङ्गं त्रपुष्यपि' इति विश्वः । ‘स्वैरङ्गैश्चापि वीथ्यङ्गैः प्रकुर्यादामुखं बुधः' इति मातृगुप्तचार्योक्तेः 'वीथ्यङ्गान्यामुखान्तत्वात्प्रोच्यन्तेऽत्रैव तानि तु' इति धनिकोक्तेश्चावलगितं नामाङ्गमुपक्षिप्तमनेन । तल्लक्षणं सुधाकरे- 'द्विधावलगितं प्रोक्तमर्थावलगनात्मकम् ? अन्यप्रसङ्गादन्यस्य संसिद्धिः


गीतस्यात्यंतश्राव्यत्वम् । अहो इत्याश्चर्ये । लोकोत्तराश्रुतपूर्वगानश्रवणादाश्चर्योत्पत्तिरिति भावः । तदैव प्रतिपादयति । रागानुबद्धेत्यादिना ॥ रज्यत इति रागः विशिष्टविन्यासः स्वरविशेषः "रंज रागे" भावे घञ् 'भावकरणयोः' इत्यनुनासिकलोपः रज्यते येन षड्जादिस्वरसंदर्भेण जगदिति रागः तेनानुबद्धा चित्तवृत्तिर्यस्य स तथोक्तः । रंगस्याचेतनत्वेन चित्तवृत्तेश्चेतनधर्मत्वेन संवं धानुपपत्तेर्विद्यमानत्वाद्रंगशब्देन रंगसंबंधिनः सामाजिका एव लक्ष्यन्ते । । इयं जहत्स्वार्था लक्षणा तदुक्तम्- "अत्र तु परार्थसिद्धयै शब्दः स्वात्मानमर्पयति सैषा । शुद्धैव जहत्स्वार्था लक्षणपूर्वा च लक्षणा प्रोक्ता ॥" इति । यस्यां लक्षणयां लक्षकशब्दः परार्थसिद्ध्यै स्वात्मानमन्यत्र समर्पयति सा जहत्स्वार्था लक्षणेति च व्यपदिश्यते । यथा गंगायां मुनिवराः प्रतिवसंतीत्यत्र गंगाशब्दस्य मुख्येऽर्थे स्रोतोरूपे मुनिवरनिवासाधिकरणता नोपपद्यत इति गंगाशब्दो मुख्येऽर्थे स्रोतोरूपेऽनुपपने तमर्थं हित्वा तदधिकरणतासिद्ध्यर्थमतिशयितपावनत्वादिधर्मद्योतनार्थं परिसरे समर्पयति । सैषा शुद्धैव जहत्स्वार्था लक्षणलक्षणेति चान्वर्था । इयमेवाप्रस्तुतप्रशंसादेरलंकारस्य बीजम् । तथात्रापि रागानुबद्धचित्तवृत्तिरंग इति वाच्यस्यासंभवात्सामाजिका एव लक्ष्यंते । रंग: नृत्यभूमिः "रङ्गं निवेशमञ्जूषामृतभूपुरसद्मसु “ इति नाममाला । आलिखितः आसमन्ताल्लिखितः । गीतस्याश्रयत्वेन रागस्यातिशयेनाभिव्यक्तौ सामाजिकानां तद्रसज्ञतया योगिन इव परिमितं स्वाकारमुत्सृज्य काव्यगततत्तदसाधारभूतनायकस्वरूपमास्थाय तत्संबंधिभोगसमावेशात्सद्यः परनिर्वृत्तिर्जातेति भावः । वाच्यप्रतीतौ तत्प्रतीतिमात्रं फलम्। व्यंग्यप्रतीतौ तु सहृदयानां चमत्कारापरपर्यायो विगलितवेद्यांतरः कश्चिदाह्लादातिशयः फलं भवति तदा सर्वकरणानां स्वस्वविषयप्रवृत्तिशून्यत्वेनालिखित इवेत्युत्प्रेक्षा । नतु साक्षाल्लिखितः तदसंभवात् ते खलु सामाजिकाः येषां मदर्पणे वर्णनीयार्थतन्मयीभवनयाोग्यता । वेदादीनामित्यादि । इदानीं गीत्यनंतरम् एनां परिषदम् आश्रित्याधिकृत्य आराधयामः रञ्जयामः वर्तमानसामीप्ये भविष्यदर्थे लट् प्रत्ययः । अनेन वर्त्तमानव्यपदेशेन विलंवो न युज्यत इति सूच्यते । हठाद्विचार्यं ब्रूहीति भावः । कतमत्प्रकरणं किं रूपकम् ।