पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/७६

पुटमेतत् सुपुष्टितम्
अङ्कः १]
( ६१ )
टीकाद्वयसमेतम्
वैखानसः--साधयामस्तावत् । ( इति सशिष्यो निष्क्रान्तः )
राजा--सूत, चोदयाश्वान् । पुण्याश्रमदर्शनेन तावदात्मानं

पुनीमहे ।

सूतः--यदाज्ञापयत्यायुष्मान् । ( इति भूयो रथवेगं निरूपयति )
राजा--( समन्तादवलोक्य ) सूत, अकथितोऽपि ज्ञायत एव

यथायमाश्रमाभोगस्तपोवनस्येति ।

सूतः--कथमिव |
राजा--किं न पश्यति भवान् । इह हि

नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः
प्रस्निग्धा: क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः ।
विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगा-
स्तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः ॥ १४ ॥


अथ च प्रतिकूलं दैवं शापस्तस्योपशमनेन सपुत्रायास्तस्या राज्ञा स्वगृहानयनमपि सूचितम् । अतोऽस्य बीजवस्तुत्वमुपपन्नम् । 'जन्म यस्य' इत्यादिना 'तां द्रक्ष्यामि' इत्यन्तेन मुखसंधेरुपक्षेप इति प्रथमभङ्गमुपक्षिप्तम् । तल्लक्षणमादिभरते--'काव्यस्यार्थसमुत्पत्तिरुपक्षेप इति स्मृतः' इति । [ नीवारा इति । ] तरूणं वृक्षाणामधो नीवारास्तृणधान्यानि सन्तीति क्रियासामान्ययोगान्न्यूनपददो-


नाम प्रकाशमिति वदेत् । सर्वाश्राव्यमात्मगतमिति नियतश्राव्यं जनांतिकमिति तदेवान्यपरावृत्त्या अन्यस्य कथनं रहस्यम् । किंचिदाकाशभाषितं भवति । तद्यथा--"किं ब्रवीष्येवमित्यदि विना पात्रं ब्रवीति यः श्रुत्वेवानुक्तमप्येकस्तस्मादाकाशभाषितम् ॥" भवत्वित्यादि । भवतु सन्निहितो वा मा वेत्यंगीकारे विदितभक्तिं विदिता ज्ञाता भक्तिर्यस्य तं तथोक्तम् । करिष्यति तवासन्निधानेऽपि राजागत्यातिथिसत्कारं प्राप्य गत इति ऋषेः शकुन्तला वक्ष्यतीत्यर्थः । न चेत्सर्वानर्थकारी काश्यपमुनिशापो भवेदिति । अत एवोक्तं महर्षेरिति । साधयामः निर्वर्तयामः तावत्साकल्ये । समिदाहरणादिकं सर्वमित्यर्थः । चोदय प्रेरय पुनीमहे पवित्रीकुर्महे । रूपयति अभिनयति । तदुक्तम् भरतेन--"रथस्थस्यापि कर्तव्या गतिश्चर्णपदैरथ । समपादं तथा स्थानं कृत्वा रथगतिं व्रजेत् ॥ सूतश्चास्य भवेदेवं प्रतोदप्रग्रहाकुलः ) दूरैश्चूर्णपथैश्चैव कर्तव्यं रङ्गमंडलम् ॥" इति । आभोगः परिपूर्णता विस्तार इति यावत् "आभोगः परिपूर्णता" इत्यमरः । नीवारा इत्यादि । शुकगर्भकोटरमुखभ्रष्टाः शुका गर्भे येषां कोटरमुखानां तानि तथोक्तानि तेभ्यो