पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

16.17. A.2 H सटीकामरकोशस्य [शब्दादिवर्ग: चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे ।। गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तुतदति ॥ १७ ॥ इति धीवर्गः ॥५॥ ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरखती। व्याहार उक्तिर्लपितं भाषितं वचनं वचः॥१॥ अपभ्रंशोऽपशब्दः स्याच्छास्त्रे शब्दस्तु वाचकः तिङ्सुबन्तचयो वाक्यं क्रिया वा कारकान्विता ॥२॥ श्रुतिः स्त्री वेद आनायत्रयी धर्मस्तु तद्विधिः ॥ भेदाभपुसकम् । यथास्य पदस्य शुक्लं रूपम् । तद्वति गुणवति वस्तुनि वर्तमाना गुणिलिकाः अभिधेयलिङ्गाः । “गुणवचनेभ्यो मतुपो लुक्" इति गुणिनि वर्तमा- नत्वम् । तत्प्रत्याख्याने "गुणगुणिनोरभेदानिर्वाहः" इति महाभाष्ये। यथा शुक्ला शाटी शुक्ल पट: शुक्ल वस्खम् । रोहितादीनां स्त्रीत्वे तु "वर्णादनुदात्तातोपधात्तो न" इति लीष्वा तकारस्य नकारश्च । यथा श्येनी श्येता । रोहिणी रोहिता । लोहिनी लोहितेत्यादि ॥१७॥ इति धीवर्गः॥५॥ ब्रामी ब्रह्मण इयम् । “प्रायो- जातो" इति टिलोपः डी।भारती भाषा गी: गिरापि । "ब्रह्माणी वचनवाचा जल्पित गदित गिरा" इति शब्दार्णवः। “गीणितिगिरा" इति त्रिकाण्डशेषः तत्र गिरा वाणीति पाठः । वाक् वाणी सरस्वती व्याहारः उक्तिः लपितं भाषित वचनं वचः त्रयोदश नामानि वचनस्य । तत्रापि सरखत्यन्तानि वचनाधि- ठाच्या देवताया अपि । व्याहारादीनि त्वधिष्ठेयस्यैव । गी: रेफान्तः ॥१॥ अपभ्रष्टः शब्दः गावीगोणीत्यादिः अपशब्दः सोऽपभ्रंश इत्युच्यते एकम् । शाने व्याकरणादौ यो वाचकः स शब्द इत्युच्यते एकम् । यथा ओतप्रोततन्तूनां वाचकः पट इति। तिङ्सुबन्तचयः तिङन्तसुबन्तपदसमूहो वाक्यम् । वर्ण्यत् "वचोशब्दसंज्ञायाम्" इति कुत्वम् । तिङन्तचयो यथा पचति भवति पाको भवती- त्यर्थः। सुबन्तचयो यथा। "प्रकृतिसिद्धमिदं हि महात्मनाम्" कारकान्विता कार- कैः संबद्धा क्रिया वाक्यमुच्यते । यथा देवदत्त गामभिरक्ष शुक्लदण्डेन । अत्रान्वि- तत्वं आकांक्षायोग्यतासनिधिवशाज्ञयम् ॥ २ ॥ श्रुतिः वेदः आम्नायः त्रयी चत्वारि वेदस । अत्र लिसंकरो न दोषाय स्त्रीति विशेषविधानात् त्रय्या व्याख्यायमानत्वाच । तद्विधिः वैदिको विधिर्यागादिः धर्म इत्युच्यते । वेदमू- Dighized by Google