पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3-5 प्रथमं काण्डम्. ३५ i


६] स्त्रियामुक्सामयजुषी इति वेदास्रयत्रयी ॥३॥ शिक्षेत्यादि श्रुतेरङ्गमोंकारप्रणवौ समौ ।। इतिहासः पुरावृत्तमुदात्ताधास्त्रयः खराः ॥ ४ ॥ आन्वीक्षिकी दण्डनीतिस्तर्कविद्यार्थशास्त्रयोः॥ आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षणम् ॥५॥ (१) प्रबन्धकल्पना कथा प्रवहिका प्रहेलिका ॥ लत्वात्स्मृत्युक्तोऽपि विधिर्धर्म एव। यदाह गौतमः। "श्रुतिस्मृतिविहितो धर्म" इति । केचितु लिङ्गसंकरो मा भूदिति त्रयीधर्म इति समस्तं पदमाहुः । “विधा- नमृग्यजुः साम्नां त्रयीधर्म विदुर्बुधाः" ॥ त्रयीशन्दे विशेष दर्शयन्वेदभेदानभि- धत्ते। ऋक् अच्यन्ते स्तूयन्ते देवा अनया। "ऋच् स्तुतौ" संपदादित्वात् किम् । साम यजुः इति त्रयो वेदा मिलितात्रयी ज्ञेया। तत्र ऋक् शन्दः स्त्रीलिङ्गः ॥३॥ शिक्षा कल्पो व्याकरणमित्यादि वेदस्या झेयम् । “शिक्षा कल्पो व्याकरण निरुक्त ज्योतिषांगतिः।। छन्दोविचितिरित्येष षडङ्गो वेद उच्यते"।प्रसङ्गादिद- मप्युच्यते । वेदानामष्टौ विकृतयः। "जटा माला शिखा रेखा ध्वजो दण्डोरथो धनः।। अष्टौ विकृतयः प्रोक्ताः क्रमपूर्वा महर्षिमिः" ॥षद् शास्त्राण्याह । “गौत- मस कणादस्य कपिलस पतञ्जलेः । व्यासस्य जैमिनेश्चापि दर्शनानि पडेव हि"॥ चतुर्दश विद्याः। “अनि वेदाश्चत्वारो मीमांसा न्यायविस्तरः। धर्मशास्त्र पुराणं च विद्या घेताश्चतुर्दश" ॥ कल्पः कल्पसूत्रम् । ओंकारः प्रणवः द्वे । इतिहासः इतिहेति पारंपर्योपदेशेऽव्ययं तदास्तेऽस्मिन् । “आस उपवेशने" अधि- करणे घम् । पुरावृत्तं वे पूर्वचरितस्थ महाभारतादेः । उदात्तः अनुदात्तः सरितः इति त्रयः खरा उच्यन्ते एकम् ॥"उदात्तथानुदासश्च स्वरितश्च खरास्त्रयः। चतुर्थः प्रचितो नोक्तो यतोऽसौ छान्दसः स्मृतः"॥४॥आन्वीक्षिकीत्येक तर्कविद्यायां गौतमादिप्रणीतायाम् । दंडनीतिरित्येक अर्थशास्त्रे बृहस्पत्यादिप्रणीते । अर्थस्य भूम्यादेः शास्त्रम् । आख्यायिका उपलब्धार्था द्वयं अनुभूतार्थप्रतिपादकस्य वासवदत्तादेः। यत्पञ्चलक्षणं तत्पुराणमुच्यते । “सर्गश्च प्रतिसर्गश्च वंशो मन्वन्त- राणि च ॥ वैश्यानुचरितं चैव पुराणं पश्चलक्षणम्" ॥५॥ प्रबन्धस्य वाक्यविस्त- रस या कल्पना रचना सा कथा एक नाटकरामायणादेः । अवडिका "प्रव- १ सर्गश्चेति टीकास्थं पचं वालपत्रपुस्तके मूल एवास्ति ।। Digitized by Google