पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१००

पुटमेतत् सुपुष्टितम्
90
अलंकारमणिहारे

वैव । अभूदित्यनुषज्यते । बभूवेत्येव निष्पन्नोऽभूदित्यर्थः । उक्तरूपनिष्पत्तेर्निस्संदिग्धत्वद्योतनाय भूतनिर्देशः । किमखिललिट्यपि बभूवेत्येव रूपं स्यादित्यत अह-- एक इत्यादिना । इह अस्मिन् भूधातौ । अयमित्यनुषज्यते । अयं लिट् एकः एकत्वसंख्याबोधकः प्रथमः पुरुषः प्रथमपुरुषैकवचनमिति भावः । भूधातोर्लिटस्तिपः 'परस्मैपदानां णल्’ इत्यादिना णलादेशे बभूवेति निष्पत्तेः । लिट्प्रथमपुरुषैकवचनस्यैवेदं रूपमिति भावः । न केवलमेतावदेव । तथा उत्तमः तद्वदेव एकत्वबोधक उत्तमपुरुषश्च भवति । मिपो णल्यपि बभूवेत्येव रूपनिष्पत्तेः । नैव मध्यमो भवति मध्यमपुरुषैकवचनं तु न भवति । तत्र बभूविथेत्येव हि रूपं न तु बभूवेति ॥

 यथावा--

 सर्वेषां वर्णानां प्रतिलोमानामुतानुलोमानाम् । तुल्यार्थदोऽखिलात्मन् सन्न्यासो भवति हि स्वनिष्ठानम् ॥ ८६९ ॥

 अत्र प्रकृतस्य भगवति भरन्यासस्य अप्रकृतस्य सन्न्यासशब्दस्य च श्लेषः । तथाहि-- हे अखिलात्मन् ! भगवन् ! भवति त्वयि सन्न्यासः प्रपदनं,

 निक्षेपापरपर्यायो न्यासः पञ्चाङ्गसंयुतः ।
 सन्न्यासस्त्याग इत्युक्तश्शरणागतिरित्यपि ॥

इति सन्न्यासशब्दस्य प्रपत्तिपर्यायतोक्तेः । स्वनिष्ठानां स्वशब्दस्सन्न्यासपरः स्वस्मिन्निष्ठा येषां ते तथोक्ताः तेषां प्रपदनैकान्त्यभाजामित्यर्थः । सर्वेषां वर्णानां ब्राह्मणादिवर्णचतुष्टयजानामिति यावत् । अनुलोमानां अनुलोमजानां उत प्रतिलो-