पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१०२

पुटमेतत् सुपुष्टितम्
92
अलंकारमणिहारे

न्न्यास इति द्विनकारक एव ग्राह्यः । अन्यथा विवक्षितस्यानुलोमप्रतिलोमपाठयोरानुपूर्वीतौल्यस्य दुर्लभत्वात् । स्वनिष्ठानां स्वस्मिन्विद्यमानानां सर्वेषां वर्णानां अक्षराणां अनुलोमानां प्रतिलोमानां वा सतां तुल्यार्थदः समानाभिधेयबोधको भवति । भवतीत्येतदस्मिन्पक्षे तिङन्तम् । स्वनिष्ठवर्णा आनुलोम्येन वा पठ्यन्तां प्रातिलोम्येन वा । उभयथाऽपि तुल्यानुपूर्वीकताया एव दर्शनादानुलोम्यप्रातिलोम्यानादरेणायं सन्न्यास इति शब्दस्तुल्यार्थबोधक एव भवतीति भावः ।

 यथावा--

 यदिवाऽक्रूरसहायो बलवानिह लोकपालकेन्द्रगतः । सौम्योनुग्रह एको भविताऽरिष्टस्य भङ्गदस्सद्यः ॥ ८७० ॥

 अत्र भगवदनुग्रहस्य प्रकृतस्य सौम्यग्रहस्याप्रकृतस्य च श्लेषः । तथाहि-- अक्रूरस्य अक्रूराख्यस्य सहायः त्रातेति यावत् । बलवान् आश्रितोज्जीवनौपयिकसामर्थ्यवान् सौम्यः अनुग्रः । अनेन सुखनिषेवणीयत्वं द्योतितम् । लोकपालकादीनां इन्द्रादीनामपि इन्द्रः ईश्वरः भगवान् ‘एष भूताधिपतिरेष लोकपालः' इत्यनौपाधिकलोकपालत्वश्रवणात् । तं गतः प्राप्तः तदीय इत्यर्थः । एकः सहायान्तरनैरपेक्ष्येणैव स्वकर्तव्यसर्वकार्यनिर्वोढा अनुग्रहः कृपा इह यदिवा भविता अक्रूर इव मय्यपि स्याच्चेदिति भावः । अरिष्टस्य मदीयानादिकालप्रवृत्ताकृत्यकरणकृत्याकरणादिसर्वविधाशुभस्य भङ्गदः निर्मूलयिता सद्य एव भविता न तु विलम्बेन ॥

 तावदार्तिस्तथा वाञ्छा तावन्मोहस्तथाऽसुखम् ।
 यावन्नायाति शरणं त्वामशेषाघनाशनम् ॥