पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१०३

पुटमेतत् सुपुष्टितम्
93
श्लेषसरः (२८)

इत्युक्तन्यायेन त्वदनुग्रहावधिक एव ममाशुभस्पर्श इति भावः ॥

 पक्षे--

बुधभार्गवजीवानामेकतमः केन्द्रमागतो बलवान् ।
क्रूरसहायो यद्यपि सद्योऽरिष्टस्य भङ्गाय ॥

इति बालारिष्टभङ्गवादिपद्यार्थोऽनुसन्धेयः । तथाहि-- हे लोकपालेति भगवतस्संबोधनम् । सौम्यः नु ग्रहः इतिच्छेदः। सौम्यः एको ग्रहः बुधभार्गवजीवानामन्यतम इति भावः । बलवान् स्थानदिक्कालचेष्टादिबलाढ्यः केन्द्रगतः लग्नचतुर्थसप्तमदशमान्यतमस्थानस्थितः क्रूरसहायः क्रूराः कुजादिदुष्टग्रहाः सहाया यस्य स तथोक्तः यदि वा स्यात् क्रूरग्रहयुतोऽपि वा सद्यः अरिष्टस्य बालारिष्टस्य भङ्गदः भविता । किमु तदयुक्त इति भावः ।

 यथवा--

 भगवन्विधो तवैतैस्सौम्यैरस्तारिपरिभवस्थितिभिः । अधियोगे ज्योतिर्भिर्जातास्सेनेशसचिवभूपास्स्युः ॥ ८७१ ॥

 अत्र भगवच्चन्द्रमसोः प्रकृताप्रकृतयोश्श्लेषः । तथाहि भगवन्! पूर्णषाड्गुण्य! हे विधो! हे विष्णो! ‘विधुर्विष्णौ चन्द्रमसि’ इत्यमरः । सौम्यैः शुभैः अस्तारिपरिभवस्थितिभिः अस्ता निरस्ता अरिपरिभवस्य वैरिकर्तृकपराभवस्य स्थितिः यैस्तथोक्तैः निरस्तारिपरिभवा स्थितिर्येषां तैस्तथोक्तैरिति वा । परिहृतबाह्यान्तरवैरिवर्गैरित्यर्थः । एतैः तव ज्योतिर्भिः दृष्टिभिः कटाक्षैरित्यर्थः । ‘ज्योतिर्भद्यौतदृष्टिषु' इत्यमरः । ‘ज्योतिरग्नौ दिवाकरे । पुमान्नपुंसकं दृष्टौ स्यान्नक्षत्रप्रकाशयोः' इति मेदिनी च । अधियोगे अधिकसंबन्धे सति जाताः जन्मवन्तो जनाः सेनेश-