पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१०५

पुटमेतत् सुपुष्टितम्
95
श्लेषसरः (२८)

प्राकृतमपि जनं लघु क्षिप्रमेव निर्ममं 'ममेति द्व्यक्षरो मृत्युः' इत्युक्तदेहादिममतारहितं, ममेति विभक्तिप्रतिरूपकमव्ययं, निर्गतं मम यस्येति विग्रहः । कृत्वा ततः निर्ममताहेतोः तमपि एवं कृतं जनमपि । निर्ममन्तत इत्यत्र ‘वा पदान्तस्य’ इति परसवर्णः । जनैः पामरैः 'जनो लोके महर्लोकात्परलोकेऽपि पामरे' इति मेदिनी । सुदुर्गमं अतिवेलदुर्लभं पारं 'तमसः पारं दर्शयति भगवान्' इति श्रुतं संसारसंतमसचण्डभानूयमानोपासनागाचरमात्मानं दर्शयति ‘दृशेश्व' इति द्विकर्मकता । निश्श्रेयसभाजं विदधातीति भावः ॥

 पक्षे-- परमः श्रेष्ठः आत्मा बुद्धिर्यस्य स तथोक्तः । कविवर्यः काव्यकृदग्रणीः । पदलग्नं पदेषु सुप्तिङन्तात्मकेषु व्यवह्रियमाणेषु शब्देषु लग्नं अन्यतमत्वेन संबद्धं पामरं पामरशब्दमपि लघु यथातथा, निर्मं अन्तत इतिच्छेदः । अन्ततः मध्ये ‘अन्तोऽस्त्री निश्चये नाशे स्वरूपेऽग्रेऽन्तिकेऽन्तरे' इति रत्नमाला । निर्मं निर्गतमकारं कृत्वा पामरशब्दे मध्यस्थमकारमुत्सार्येत्यर्थः । जनैः सुदुर्गः गन्तुमशक्यः दुर्विज्ञान इत्यर्थः । तादृशो मः मकारो यस्य तं तथोक्तम् । मकारोत्सारणे पुनर्मकारश्रवणं क्वत्यमिति भावः । पारं पारशब्दं दर्शयति, पामरशब्दमुत्सारितमकारं पारं सन्तं दर्शयतीत्यर्थः ॥

 यथावा--

 देवेशाधीशस्स्याद्विदितो जगदीशवल्लभेयमवेः । किमुत स देशाधीशो दृष्टमदृष्टं च वयमिहाब्रूम ॥

 अत्र भगवत्या श्रियाऽभिरक्षितस्य पुंसः देवेशाधीशशव्दस्य च श्लेषः । तथाहि-- हे जगदीशवल्लभे ! त्वं यं अवेः