पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१०७

पुटमेतत् सुपुष्टितम्
97
श्लेषसरः (२८)

साधु कृतार्थश्रेणी गृहीतमुक्ताकृतिः यस्याः इति छेदः । वळ्यभिख्यया वळीनां त्रिवळीनां अभिख्यया शोभया रम्या । एका अप्रतिद्वंद्वा सा श्रीः अलं पर्याप्तं यथा स्यात्तथा कृतिभिः विद्वद्भिः श्लाघ्या भाति । तमेव विशिनष्टि-- साध्विति । यस्या इति पञ्चमी । यस्याः श्रियस्सकाशात् तदनुग्रहादिति यावत् । कृतार्थानां अनुष्ठितोपायतया कृतकृत्यानां श्रेणी पङ्क्तिः साधु यथा स्यात्तथा गृहीतमुक्ताकृतिः उपात्तमुक्तस्वरूपा भवतीति ॥

 मुक्तावळीपक्षे तु-- श्रीरम्या सा एकावळ्यभिख्यया भाति अलंकृतिः श्लाघ्या साधु कृता अर्थश्रेणीगृहीतमुक्ता आकृतिः यस्याः इतिछेदः । श्रिया लावण्यलक्ष्म्या रम्या रमणीया श्लाघ्या सा अलंकृतिः आभरणं एकावळ्यभिख्यया एकावळीनाम्ना ‘एकावळ्येकयष्टिका’ इत्यमरः । भाति, यस्याः एकावळ्याख्यालंकृतेः आकृतिः स्वरूपं अर्थश्रेण्या अनल्पेन धनेनेत्यर्थः । गृहीताः क्रीताः मुक्ताः मौक्तिकानि यस्यास्सा तथोक्ता । साधु यथा स्यात्तथा कृता निष्पादितेति ॥

 एकावळ्यलंकारपक्षे तु--पूर्वार्धे पूर्ववदेव छेदः । उत्तरार्धे तु-- साधु कृता अर्थश्रेणी गृहीतमुक्ताकृतिः इति विशेषः । श्रिया काव्यलक्ष्म्या रम्या सा अलंकृतिः अलंकारः एकावळ्यभिख्यया तन्नाम्ना श्लाघ्या सती भाति । यस्याः अलंकृतेः अर्थानां अभिधेयानां श्रेणी पङ्क्तिः गृहीतमुक्ता आकृतिः यस्यास्सा तथोक्ता । साधु कृता रचिता ‘गृहीतमुक्तरीत्याऽर्थश्रेणिरेकावळी मता' इति तल्लक्षणादिति ॥

 यथावा--

 देवोत्तमस्वरूपासितभाभायात्सदात्मनिबिडौ-

 ALANKARA II
13