श्रीः
अलंकारमणिहारे द्वितीयभागप्रारम्भः
अथ परिकरालंकारसरः (२६)
साभिप्राये परिकारोऽलंकारस्स्याद्विशेषणे ।
अत्रालंकार इत्युक्तिः दोषाभावेनैव चरितार्थ्यमिति शङ्कानिरासाय । तच्चाग्रे दर्शयिष्यते । साभिप्राये प्रकृतार्थोपपादकार्थविषयकाभिप्रायपूर्वके तथाभूतार्थव्यञ्जके इति यावत् । तथाच प्रकृतार्थोपपादकार्थव्यञ्जकविशेषणत्वं लक्षणमिति ध्येयम् । ध्वनावतिप्रसङ्गनिरासाय प्रकृतार्थोपपादकेति । हेत्वलंकारवारणाय बोधकत्वमपहाय व्यञ्जकत्वनिवेशः । वक्ष्यमाणपरिकराङ्कुरालंकारवारणाय विशेषणेति । तत्र तु विशेष्यं तथेति नातिप्रसङ्गः ॥
यथा--
धुतमपि तव चरणरुचा नतताश्रयणाद्रमे महारजनम्। एत्य महारजतत्वं विद्युद्वर्णे तवैति सावर्ण्यम् ॥ ८०३ ॥
विद्युद्वर्णे! हे रमे! महारजनं कुसुम्भः ‘स्यान्महारजनं क्लीबं कुसुम्भः' इत्यमरः । तव चरणरुचा धुतमपि नतताश्रयणात्
नम्रतावलम्बनात्--