पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१११

पुटमेतत् सुपुष्टितम्
101
श्लेषसरः (२८)

कमलं पदं निवासस्थानं यस्यास्सा कमलपदा तस्याः पद्मालयायाः श्रियः । अनेन सौकुमार्यातिशयो व्यज्यते । तेन च तत्प्रार्थनाकरणे म्लानिशङ्कयाऽवश्योपादेयत्वं तद्वचसो ध्वन्यते । वाण्याः ‘किमेवं निर्दोषः क इह जगति’ इत्याद्युक्तप्रकारायाः वाचः वशगः वश्यः । अत एव सुमनसां विदुषां भवं संसारं हरतीति सुमनोभवहारी सन् निजे स्वकीये पदे चरणे स्थाने वा लग्नान् तानेव सुमनस इति भावः । सत्कामान् सत्यकामान् आविर्भूतकल्याणगुणानित्यर्थः । तनोति । अनतिक्रमणीयश्रीवचनविभवविवशो भगवान्निश्शेषाविद्यानिवर्तनपूर्वकं स्वाश्रितानाविर्भूतगुणाष्टकान्विदधातीति निर्गळितोऽर्थः ॥

 चतुर्मुखपक्षे-- कमलपदायाः नलिनमृदुलचरणायाः गौर्याः 'या कुन्देन्दुतुषारहारधवळा’ इत्युक्तरीत्या विशदवर्णायाः सदाऽपि साधुरतेः साधुषु सभ्येषु विद्वत्सु रतिः प्रीतिः यस्याः तथोक्तायाः वाग्देवतात्वादिति भावः । ‘साधुस्त्रिषूचिते चारौ सभ्ये वार्धुषिके तु ना’ इति रत्नमाला । वाण्याः सरस्वत्याः वशगः । सुमनसि बिसप्रसूने पद्मे भवेन जन्मना 'जन्महरौ भवौ' इत्यमरः । हारी मनोहरः भगवन्नाभिनलिनजन्मेत्यर्थः । अजः चतुर्मुखः । निजपदलग्नान् सत्यलोकगतान् सत्कामान् रमणीयभोग्यवस्तुशालिनः तनोतीति ॥

 ईशानपक्षे-- कमलपदायाः पद्यत इति पदा पद्यतेः पचाद्यच् । कमलस्य कुरङ्गस्य पदा, कमलः कुरङ्गः पदं चिह्नं यस्यास्सेति वा तस्याः उभयथाऽपि कुरङ्गपाणेरित्यर्थः । ‘स्यात्कुरङ्गेऽपि कमलः, पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इति चामरः । यद्यपि कुरङ्गपाणित्वमीशानस्यैव प्रसिद्ध्यति । तथाऽप्युमायास्तदर्धाङ्गतया तदुक्तिरिति ध्येयम् । अत एव ‘दीप-