पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/११७

पुटमेतत् सुपुष्टितम्
107
श्लेषसरः (२८)

तनामा । वर्षति तरां प्रचेताश्श्रीदो ननु सर्वतोमुखं कामम् ॥ ८७८ ॥

 अत्रापि भगवानेव प्रस्तुतः । इन्द्रयमवरुणकुबेरचन्द्रा अप्रस्तुताः । षण्णामेषां श्लेषः । (१) भगवत्पक्षे-- जिष्णुः जयशीलः । समवर्तिताप्रथितनामा । मया श्रिया सह वर्तते यस्मिन्कर्मणि तद्यथा स्यात्तथा समं समं वर्तत इति समवर्ती श्रीमत्तयैव विद्यमान इत्यर्थः । यद्वा-- 'समोऽहं सर्वभूतेषु’ इत्युक्तरीत्या सर्वसमं वर्तत इति तथोक्तः । अथवा समेषु सर्वेषु चेतनाचेतनरूपवस्तुषु वर्तते अन्तः प्रविश्य नियन्तृतया विद्यत इति समवर्ती ‘सर्वसाधुसमानेषु समं स्यादभिधेयवत्' इति मेदिनी । तस्य भावः समवर्तिता । तया प्रथितनामा प्रख्याताभिख्यः प्रकृष्टं चेतो यस्य स तथोक्तः महाशय इत्यर्थः । महोदार इति यावत् । महोदारता च पात्रलाघवं प्रदेयगौरवं चानादृत्य दायभागन्यायेन प्रत्युपकारनिरपेक्षं वितरणरसिकत्वं प्राज्यं दत्वाऽप्यतृप्तत्वं च । अत एव श्रीदः आश्रितेभ्योऽखिलसंपत्प्रदः राजो ‘एक इद्राजा जगतः' । एष ब्रह्मलोकस्सम्राट्! राजाधिराजस्सर्वेषां विष्णुर्बह्ममयो महान्' इत्याद्युक्तरीत्या सकललोकाधिराजः सः एवं प्रसिद्धप्रभावः लोकपालः सर्वजगद्रक्षको भगवान् 'एष लोकपालः’ इति श्रुतेः । सर्वतोमुखं अप्रतिहतं कामं मनोरथं अस्माकमिति शेषः । वर्षतितरां ननु अतिशयेन ददात्येव । ननुरवधारणे । यद्वा न नु इति पदद्वयम् । नुः पृच्छायां न वर्षतितरां नु । वर्षत्येवेति भावः ॥

 (२) इन्द्रपक्षे-- समवर्तिताप्रथितं स्वरूपोचितवृत्तितया प्रसिद्धं नाम यस्य स तथोक्तः । प्रचेताः महामनाः श्रीदः आ-