पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/११९

पुटमेतत् सुपुष्टितम्
109
श्लेषसरः (२८)

णामेव महादिगधीशतया राजत्वं श्रुत्या ख्यापितम् । न तु विदिगधीशानामग्निनिऋतिमरुदीशानानां तेषां राजत्वाश्रवणादित्यवधेयम् । श्रीदः कुबेरः सर्वतोमुखं कामं वर्षति तरां ‘स मे कामान् कामकामाय मह्यं, कामेश्वरो वैश्रवणो ददातु' इति श्रुतेः ॥

 (६) चन्द्रपक्षे तु-- लोकपालः--

इन्द्रानिलयमार्काणामग्नेश्च वरुणस्य च ।
चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः॥

इत्युपक्रम्य ‘अष्टाभिर्लोकपालानां मात्राभिर्निर्मितो नृपः’ इत्युक्तेश्चन्द्रस्यापि लोकपालत्वम् । अन्यानि विशेषणानि पूर्वोक्तार्थान्येव । राजा इदं विशेष्यं चन्द्र इत्यर्थः । ‘सोम एव नो राजेत्याहुर्ब्राह्मणीः प्रजाः' इति श्रवणादस्य राजत्वम् । सर्वतोमुखं निरङ्कुशं यथा तथा कामं वर्षतितरां मन्मथमुद्दीपयतीति यावत् ॥

 नन्वत्रोपपादितेषु सर्वेष्वप्यर्थेषु विशेषणानां विशेष्याणां चानियमात्कथमस्य श्लेषोदाहरणता ‘सर्वदोमाधवः पायात्' इत्यादौ तन्नियमस्यैव दर्शनादिति चेत् उभयेषामपि श्लिष्टत्वनियमानतिक्रमादित्यवधेहि । विशेषणविशेष्योभयश्लिष्टत्वमेव हि श्लेषलक्षणम् । न हि विशेषणैर्विशेष्यैर्वा सर्वेष्वप्यर्थेष्वैकरूप्येणैव भाव्यमित्याग्रहः । तेषां श्लिष्टतानियममात्रस्यैवापेक्षितत्वादिति दिक् । एवं सर्वत्रापि द्रष्टव्यम् ॥

 यथावा--

 गोविसरोपात्तश्रीरुदारसत्त्वाऽधिदेवतामहती । वसुमत्ताविद्योता समुपाश्रयते परां काष्ठाम् ॥