पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१२०

पुटमेतत् सुपुष्टितम्
110
अलंकारमणिहारे

 अत्रापि श्रियःपतिरेव प्रकृतः, बृहस्पतिदिवस्पतिपशुपतिग्रहपतिवसुमतीनरपतयोऽप्रकृताः । सप्तानामेतेषां श्लेषः तथाहि,

 (१) श्रीपतिपक्षे- गोविसरोपात्तश्रीः गवां अपां विसरस्समूहः वाराशिः तस्मात् उपात्ता श्रीः लक्ष्मीः यया सा तथोक्ता

गौ क्रतौ वृषभे चन्द्रे वाग्भूदिग्धेनुषु स्त्रियाम् ।
द्वयोस्तु रश्मिदृग्बाणस्वर्गवज्राम्बुलोमसु ॥

इति रत्नमाला । ‘विसरः प्रसरे व्रजे । श्रीर्वेषरचनाशोभाभारतीसरळद्रुमे । लक्ष्म्यां त्रिवर्गसंपत्तिविधोपकरणादिषु । विभूतौ च गतौ च स्त्री’ इति च मेदिनी । उदारं श्रेष्ठं सत्त्वं स्वसत्ताभासकं सत्त्वं गुणसत्त्वाद्विलक्षणम्’ इत्युक्तो गुणविशेषः यस्यास्सा ‘यत्सत्त्वं स हरिर्देवः' इत्याद्युक्तेश्शशुद्धसत्त्वमयाप्राकृतदिव्यमङ्गळविग्रहेत्यर्थः । 'उदारो दक्षिणे ख्याते दानशौण्डे महत्यपि' इति, ‘सत्त्वं गुणे पिशाचादौ व्यवसायस्वभावयोः । गुणप्राणबलस्वान्तसत्तास्वस्त्री तु जन्तुषु' इति च रत्नमाला । वसुमत्ताविद्योता वसवः देवविशेषाः प्रसिद्धाः मत्ताः तृप्ताः यस्मात्सः वसुमत्तः । अविः आदित्यः तस्मिन् द्योतत इति द्योता ‘असौ वा आदित्यो देवमधु’ इत्युपक्रम्य 'तद्यत्प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति’ इति मधुविद्योक्तप्रक्रियया वसुतृप्तिहेतावादित्ये ‘यश्चासावादित्ये' इत्याद्युक्तरीत्या विद्योतमानेत्यर्थः ॥

वसुर्ना देवभेदेषु योक्त्राग्निधनदांशुषु ।
मधुरे तु त्रिषु क्लीबे सलिले धनरत्नयोः ॥

इति रत्नमाला । ‘हृष्टो मत्तस्तृप्तः' इत्यमरः ।