पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१२१

पुटमेतत् सुपुष्टितम्
111
श्लेषसरः (२८)

अविर्ना पर्वते सूर्ये मेषे मूषककम्बळे ।
प्राकारे भवने भासि स्त्री तु पुष्पवतीभुवोः ॥

इति रत्नमाला । महती देवता ‘महते दैवतायाज्यं, दैवतानां च दैवतम्’ इत्युक्तो भगवान् वासुदेवः परां काष्ठां स्थितिं श्रयते । सैव परमप्राप्येत्यर्थः । ‘सा काष्ठा सा परा गतिः' इति हि श्रुतिः ।‘काष्ठोत्कर्षे स्थितौ दिशि' इत्यमरः ।

काष्ठं दारुणि काष्ठा तु प्रकर्षे स्थानमात्रके ।
दिशि दारुहरिद्रायां कालमानप्रभिद्यपि ॥

इति हेमचन्द्रः ॥

 (२) बृहस्पतिपक्षे-- गोविसरेण वाक्प्रसरेण उपात्ता श्रीः देवाचार्यकविभूतिर्यया सा तथोक्ता । उदारं ख्यातं सतो भावस्सत्त्वं वैदुष्यं यस्यास्सा ‘सन् सुधीः कोविदो बुधः' इत्य मरः । वसुमत्ता तेजस्विता ब्रह्मवर्चसमिति यावत् । सा च विद्या ऋग्वेदादिविद्या च वसुमत्ताविद्ये पूर्वनिपातप्रकरणस्य ‘लक्षणहेत्वोः' इत्यादिसूत्रनिर्देशेनानित्यताया ज्ञापितत्वान्नेहाल्पाच्तरस्य विद्याशब्दस्य परनिपातविरोधः । वसुमत्ताविद्याभ्यां ऊता संततेति यावत् ।‘ऊतं स्यूतम्' इत्यमरः । वेङः कर्मणि क्ते संप्रसारणम् । महती देवपूज्या देवता बृहस्पतिनामेति भावः । परां काष्ठां उत्कर्षं समुपाश्रयते ॥

 (३) दिवस्पतिपक्षे-- गोविसरेण नयननिवहेन लोचनसहस्रेणेत्यर्थः । उपात्ता श्रीश्शोभा यया सा तथोक्ता । उदारसत्त्वामहाव्यवसाया । वसवो देवविशेषाः तेऽस्य सन्तीति वसुमत् तस्य भावः वसुमत्ता ‘शरदः कृतार्थता’ इत्यादाविव सामान्ये नपुंसकम् । तया आविद्योता समन्तात्प्रकाशमाना । अ-