पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१२४

पुटमेतत् सुपुष्टितम्
114
अलंकारमणिहारे

र्थः । महती विपुला देवता भूरूपा ‘हन्ताहमिमास्तिस्रो देवताः’ इत्यन्नशब्दाभिलपनीयाया भुवो देवतात्वश्रवणात् । परां काष्ठां श्रयते सर्वा दिशो व्याप्नोतीत्यर्थः ।

 (७) नरपतिपक्षे-- गोविसरात् तत्तद्देशभूनिवहात् दृष्टिप्रसरणात् बाणप्रयोगाद्वा उपात्ता सामन्तवर्गादुपाहृता श्रीः विभूतिः यया सा तथोक्ता उदारं सत्त्वं बलं प्राणो वा यस्यास्सा वदान्यचित्ता वा । वसुभिः धनैः मत्ता तृप्ता । अविभिः प्राकारैः भवनैः भाभिर्वा सर्वैर्वा द्योतत इति तथोक्ता । उदाहृतः कोशो न विस्मरणीयः । महती देवता भूपतिरूपा ‘महती देवता ह्येषा नररूपेण तिष्ठति’ इति स्मरणात् । परां काष्ठां उत्कृष्टां स्थितिं आधिराज्यपदमिति यावत् । समुपाश्रितेति ॥

 एवमष्टानां नवानां दशानां ततोप्यधिकानां वाऽर्थानां श्लेषश्शक्यः कर्तुं, अथाऽपि भगवत्या भारत्या भूयान् स्यात्क्लेश इति भिया विश्रम्यते ॥

 एवं प्रकृताप्रकृततदुभयगोचरतया श्लेषत्रैविध्यं प्रपञ्चितम् । तत्र सभङ्गाभङ्गरूपवैलक्षण्यं च सामान्यतः प्रदर्शितम् । इदानीं विशिष्य तद्भेदः प्रपञ्च्यते । अत्र कौस्तुभकारः-- "श्लेषस्सभङ्गोऽभङ्गश्च । विभिन्नानुपूर्वीकशब्दप्रतिसन्धानबोध्यार्थान्तरकत्वं सभङ्गत्वम् । समानानुपूर्वीकशब्दप्रतिसन्धानबोध्यार्थान्तरकत्वमभङ्गत्वम्। द्विविधोप्ययं श्लेषोऽर्थालङ्कार एव । अर्थान्तरस्य वाक्यार्थानन्वये नानार्थकपदसद्भावेऽपि श्लेषव्यवहारविरहात् । आद्यश्चाष्टधा-- वर्णपदलिङ्गभाषाविभक्तिप्रकृतिप्रत्ययवचनभेदात्” इत्यभाणीत् । तथाहि--