पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१३

पुटमेतत् सुपुष्टितम्
3
परिकरालङ्कारसरः (२६)

 अत्रानेकान्यहमर्थविशेषणान्यतिदीनत्वेन दयनीयत्वाभिप्रायगर्भितानि । अनेकानि च भगवद्विशेषणानि भक्तवत्सलतया तदुद्धरणावश्यकताभिप्रायगर्भितानि ॥

 यथावा--

 नाचकथं रामकथां नाररचं भारतं च भूरितरम् । नाचकलं भागवतं नाथ कथं तावकस्तवस्येशे ॥ ८०६ ॥

 कथरचकलास्त्रयो धातवश्चुराद्यन्तर्गणे कथादावदन्तेषु पठिताः । तेभ्यस्स्वार्थणिजन्तेभ्यः कर्तरि लुङि 'णिश्रिद्रुस्रुस्यः कर्तरि चङ्' इति च्लेश्चङि णेरग्लोपितत्वात् ‘सन्वल्लघुनि चङ्परेऽनग्लोपे’ इत्यत्रानग्लोपे इति पर्युदासात्सन्वद्भावाभावेन अभ्यासस्य ‘सन्यतः' इति विहित इकारः 'दीर्घो लघोः' इति दीर्घश्च न । ईशे इति ईशधातोर्लडुत्तमैकवचनम् । स्तवस्येत्यत्र ‘अधोगर्थदयेशाम्’ इति कर्मणश्शेषत्वविवक्षया षष्ठी । अत्र नाचकथमित्यादीनि विशेषणानि स्वास्मिन् प्राचेतसपाराशर्यसूतासाधारणकार्यनिषेधमुखेन नाहं प्राचेतस इत्याद्याकूतगर्भितानि ॥

 यथावा--

 नोदायिषि ज्वलनतो नोदाहार्षीश्च मत्कृते गीताम् । कोऽसाविति मम दयसे व्यासान्नाजनिषि चाहमब्जाक्ष ॥ ८०७ ॥

 अत्र ज्वलनतो नोदायिषीत्यादीनि विशेषणानि स्वस्मिन् द्रौपदीधनञ्जयशुकासाधारणकार्यनिषेधमुखेन नाहं द्रौपदीत्याद्याभिप्रायगर्भाणि । अत्राद्ये उदाहरणे एकं विशेषणं, समनन्तरोदाहर-