पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१३२

पुटमेतत् सुपुष्टितम्
122
अलंकारमणिहारे

नुरागिणी शुभा दृक् यस्यास्सा कमलसुहृन्नयनेत्यर्थः । शुकस्य कीरस्य वागिव वाक् यस्यास्सा शुकवाक् । अमृताब्धिजा दुग्धाम्बुधिजनिता । ततं विस्तृतं यशो भजत इति ततयशोभाक् । महोज्ज्वला अत्युज्ज्वला भाः यस्यास्सा । मा मणिहारिहृत् इति छेदः । मणिहारोऽस्मिन्नस्तीति तथोक्तं हृत् वक्षो यस्यास्सा । मा लक्ष्मीः सततं अस्मान् पायादेव रक्ष्यादेव नात्र संदेह इति भावः ॥

 भगवत्पक्षे-- पद्मायां लक्ष्म्यां अनुरागिणी शुभा दृक् यस्य सः तस्य संबुद्धिः । शुकस्य शुकमहर्षेः वाक् श्रीभागवतरूपा सैव अमृताब्धिः तस्माज्जातमिति शुकवागमृताब्धिजं आततं च यद्यशः तद्भजतीति तथोक्तः तस्य संबुद्धिः श्रीभागवतप्रख्यातविपुलकीर्ते ! इत्यर्थः । महोज्ज्वलभामामणिहारिहृदित्येकं पदं समस्तम् । ज्वलतीति ज्वला पचाद्यच् । महसा ज्वला महोज्वला 'अनचि च' इति जकारस्य द्वित्वम् । या भामामणिः लक्ष्मीः तया हारि मनोहरं हृत् वक्षः यस्य तस्य संबुद्धिः । पायाः देवेतिच्छेदः । हे देव ! भगवन् ! सततं अस्मान् पायाः अव्याः, पाधातोराशीर्लिङि मध्यमैकवचनम् । पूर्वत्र प्रथमैकवचनम् । अनयोः पद्ययोः दधत् इत्यादीनां पुंनपुंसकलिङ्गानामेकोच्चारणगोचरत्वाल्लिङ्गश्लेषः । ईदृशं च लिङ्गश्लेषोदाहरणमलङ्कारकौस्तुभकृदुदाहरणानुरोधेन । वस्तुतस्तु तन्मतेन नेदमुदाहरणं, तेन हि वर्णाद्यष्टविधश्लेषाणां सभङ्गत्वं प्रतिज्ञाय ‘विभिन्नानुपूर्वीकशब्दप्रतिसन्धानबोध्यार्थान्तरकत्वं सभङ्गत्वम्’ इति सभङ्गतां परिष्कृत्य--

उन्निद्राब्जपरिष्कृतप्रवरदोः प्रह्वीभवद्दैवतः
श्रेणीमौळितटावघट्टितमणिज्योत्स्नासमुल्लासितात् ।