पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१३९

पुटमेतत् सुपुष्टितम्
129
श्लेषसरः (२८)

विभक्तिश्लेषः.



 सुपां तिङां च श्लेषश्चेद्विभक्तिश्लेष ईरितः ॥

 केवलसुपां केवलतिङां मिळितानां वा सुप्तिङां श्लेषश्चेत्स विभक्तिश्लेष इत्युच्यते ॥

 यथा--

 उरुगायान्यथ च सदानन्दानि महामहांसि भूयांसि । फणिशिखरिशिखरसीमनि विलगन्ति जगन्ति चावन्ति ॥ ८९० ॥

 अत्रापि भगवतो लक्ष्म्याश्च श्लेषः । तथाहि-- उरुः विपुलः गायः कीर्तिः येषां तानि । अथ च सन् आनन्दो येषां तानि । भूयांसि अतिबहूनि । बहुत्वं चात्र वैपुल्यं न तु सङ्ख्याविशेषः । बहुशब्दस्य ‘बहुषु बहुवचनम्' इत्यादौ सङ्ख्यायामिव ‘अल्पं वा बहु वा यस्य’ इत्यादावल्पत्वप्रतियोगिवैपुल्येऽपि प्रयोगदर्शनात् ‘बहु स्यात्र्यादिसङ्ख्यासु विपुलेऽप्यभिधेयवत्' इति मेदिनी । वैपुल्यं चात्र गुणतस्स्वरूपतश्च । तथाचानन्तकल्याणगुणानि सर्वव्यापीनि चेत्यर्थः । महामहांसि तथात्वेनाध्यस्तो भगवानित्यर्थः । फणिशिखरिशिखरसीमनि विलगन्ति अवतिष्ठन्ते । तत्र हेतुमभिप्रयन्नाह-- जगन्ति लोकान् अवन्ति रक्षन्ति च । लगतेरवतेश्च लट्प्रथमबहुवचनम् ॥

 पक्षे फणिशिखरिशिखरसीमनि विलगन्ति विद्यमानानि जगन्ति अवन्ति त्रायमाणानि । भूयांसि उक्तोऽर्थः । महामहांसि द्वितीयाबहुवचनम् । तत्त्वेनाध्यवसितां श्रियमित्यर्थः । उरु

 ALANKARA II
17