पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१४०

पुटमेतत् सुपुष्टितम्
130
अलंकारमणिहारे

अधिकं यथा स्यात्तथा गायानि गायेयं तद्यशःकीर्तनं करवाणीत्यर्थः । अथच गानानन्तरं च सदा सर्वदा नन्दानि नन्देयं प्रमोदेयेत्यर्थः । उभयत्र प्रार्थनायां लोडुत्तमैकवचनम् । अत्र विलगन्तीत्यादौ सुप्तिड़्विभक्त्योः श्लेषः ॥

 यथावा--

 चरणाम्बुजशरणगतं कंचिदपि त्वं पुराऽपि न निरास्थः । अद्यत्वेऽच्युत मदवनविषयेऽपि तथैव को विशयः ॥ ८९१ ॥

 हे अच्युत! आश्रितरक्षणव्रतान्नच्यवतीत्यच्युत इति निरुक्तिः तस्य संबुद्धिः । इदं च प्रकृतविवक्षितार्थोपस्कारकं, चरणाम्बुजशरणगतं कंचिदपि जातिवृत्तादिनिहीनमपीति भावः । पुराऽपि पूर्वमपि न निरास्थः न निराकार्षीः । निःपूर्वकादस्यतेर्लुङि सिपि च्लेरङि ‘अस्यतेस्थुक’ इति थुक् । अद्यत्वे मदवनविषये मद्रक्षणविषयेऽपि तथैव न निरास्थ एव निरपेक्षो न किंतु सापेक्ष एवेति भावः । निर्गता आस्था यस्य निरास्थः न निरास्थः ननिरास्थः । ‘आस्था त्वालम्बनास्थानयत्नापेक्षासु योषिति' इति मेदिनी । अत्र तिङ्सुब्विभक्त्योः श्लेषः ॥

 यथावा--

 सुमनोहृत्सरसीरुहनिवासभागब्जलोचनाऽनर्घश्रीः । शिशिरकृपासारस्स्याद्भूयान्मयि सर्वदा च भवतस्तप्ते ॥ ८९२ ॥

 अत्र श्रीश्रीपतिविषयकः प्रथमासंबुद्धिविभक्त्योः श्लेषः ।