पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१४२

पुटमेतत् सुपुष्टितम्
132
अलंकारमणिहारे

ह्मणे दानम्’ इत्यादाविव संप्रदानस्यैवाधिकरणत्वविवक्षया सप्तमी । अलं दत्ता आभा दीप्तिः यया सा तथोक्ता तया । पक्षे सुरेषु विषये दत्तं अभयं यया सा तथोक्ता । उदधेः क्षीरोदाज्जाता उदधिजा । तया तथोक्तया । पक्षे उत् उत्कृष्टः अधि अधिकः जयः यस्यास्सा तथोक्ता । सर्वभूतानां धात्र्या सवित्र्या लोकमात्रा । श्रियेत्यर्थः । अखिलं एतद्भुवनं दरतः संसारभयात् तत्रे त्रातम् । कर्मणि लिट् । 'भीत्रार्थानाम्’ इति पञ्चमी । पक्षे सर्वभूतधात्री आदरत इति छेदः । सर्वभूतधात्री भूः ‘भूतधात्र्यब्धिमेखला' इत्यमरः । आदरतः आदरात् अखिलं एतद्भुनं तत्रे त्रायते स्म । त्रायतेः कर्तरि लिट् । अत्र सर्वभूतधात्र्यादरत इत्यत्र पदश्लेषोऽपि वेदितव्यः ॥

 यथावा--

 क्षेमकृतो दामभृतस्स्थेमपुषस्सकलदुरितनाममुषः । सरसीरुहवासिन्यास्सदृशा ददतां श्रियं ममापाङ्गाः ॥ ८९४ ॥

 अत्र सरसीरुहवासिन्यास्सदृशा इति तदपाङ्गानां विशेषितत्वात् क्षेमकृत इत्यादीनि पदानि तस्यास्तेषां चाविपरिणामेनैव विशेषणानीति बोध्यम् । अत एव षष्ठीप्रथमयोर्विभक्त्योः एकवचनबहुवचनयोश्च श्लेष इत्यवधेयम् ॥

 यथावा--

 नमदवनास्वप्नतरावम्लानौ सर्वसंपदामवनौ । हृदयमनुविहरतां फणिगिरिधामनिविष्टपादौ नः ॥

 अत्र भगवत्पक्षे सप्तम्याः तत्पादपक्षे प्रथमायाश्च विभक्तेः