पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१४३

पुटमेतत् सुपुष्टितम्
133
श्लेषसरः (२८)

श्लेषः । तथाहि-- नमतां नन्तॄणां अघने प्रीणने विषये अस्वप्नतरुस्सुरद्रुमः तस्मिंस्तथाभूते सर्वेप्सितदातरीति भावः । पक्षे नमदवने अतिशयेनास्वप्नौ अस्वप्नतरौ अतिजागरूकावित्यर्थः । प्रथमाद्विवचनम् । एवमग्रेऽपि । अम्लानौ अविद्यमाना म्लानिः हर्षक्षयो यस्य तथोक्ते । पक्षे न म्लानौ अम्लानौ ग्लानिविहीनावित्यर्थः । सर्वसंपदां अवनौ भूमौ आधारभूत इत्यर्थः । पक्षे रक्षकावित्यर्थः । फणिगिरिः धाम स्थानं यस्य तस्मिन् फणिगिरिधामनि । विष्टपानां लोकानामादौ प्रथमे जगत्कारणभूते परस्मिन् ब्रह्मणि नः अस्माकं हृदयं चित्तं अनुविहरताम् । लग्नं भवत्वित्यर्थः । अनुपूर्वकात् हृञस्तङि लोट्प्रथमपुरुषैकवचनम् । पक्षे फणिगिरिधामनिविष्टपादौ इति समस्तं पदम् । फणिगिरिरिति यद्धाम स्थानं तस्मिन् निविष्टः स्थितः श्रीनिवास इत्यर्थः । तस्य पादौ चरणौ । नः हृदयं चित्तं अनु 'अनुर्लक्षणे' इति कर्मप्रवचनीयसंज्ञायां ‘कर्मप्रवचनीययुक्ते द्वितीया’ इति हृदयशब्दाद्द्वितीया । विहरतां क्रीडताम् । हृञः परस्मैपदिनो लोट्प्रथमपुरुषद्विवचनम् । ‘तस्थस्थमिपां तांतंतामः’ इति तसस्तामादेशः । अत्रैकवचनद्विवचनयोः इकारोकारयोः इकाराकारयोर्वर्णयोयोश्च श्लेषः ॥

 यथावा--

 द्राघीयोविख्यातावतिप्रशस्तौ नितान्तपरिपुष्टौ । चेतोहरौ सदाऽऽस्तां दोषौदास्यं वितन्वतोऽस्य मम ॥ ८९६ ॥

 द्राघीयसी विख्यातिर्यस्य तस्मिन् तथोक्ते इति भगवत्पक्षे । द्राघीयो यथा स्यात्तथा विख्यातौ द्राघीयांसाविति वि-