पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१४५

पुटमेतत् सुपुष्टितम्
135
श्लेषसरः (२८)

स्विनि ! पूर्ववत्संबुद्धिः । मेधा अस्या अस्तीति मेधावती तस्यास्संबुद्धिः । मनोहरे ! मनोज्ञे ! हे भवति ! पूज्ये मातरिति वा । हे लक्ष्मि ! सदाऽपि ते तव पदे चरणे सेवे भजे इति ॥

 भगवत्पक्षे तु--आदृतसुमनस्सेवे शुभगुणमहिते सदा अपि लक्ष्मिपदे ननु मे धावति मनः हरे भवति इतिच्छेदः । ननु हरे ! हे भगवन् ! आदृता सुमनसां विबुधानां सेवा येन तस्मिंस्तथोक्ते । शुभगुणैः महितः तस्मिन् । लक्ष्म्याः पदं स्थानं लक्ष्मिपदं तस्मिंस्तथोक्ते श्रीनिवासे इत्यर्थः । लक्ष्मीशब्दस्याङ्यन्ततया समासे ‘इको हृस्वोऽङ्यो गालवस्य' इति वैकल्पिको हृस्वः ‘लक्ष्मणो लक्ष्मिसंपन्नः’ इतिवत् । घनस्याम्बुदस्य रुचिभूमेव रुचिभूमा यस्य तस्मिन् । यशस्विनि 'तस्य नाम महद्यशः’ इत्युक्तरीत्या कीर्तिमति । भूम्नि प्रशंसायां वा मत्वर्थीय इनिः । भवति त्वयि मे मनः चित्तं धावति प्रवर्तते । अत्र पदश्लेषादिकमपि द्रष्टव्यम् ॥

 यथावा--

 स्वामिनि जगतां लक्ष्मीकामिनि वरदे विभावतिमनोज्ञे । भवतान्मनस्त्वयि शुभे भवरहिते पद्मजातहृन्महिते ॥ ८९८ ॥

 अत्रापि पूर्ववदेव संबुद्धिसप्तम्योः श्लेषः । तथाहि, लक्ष्मीपक्षे-- वरदेवि भावति मनोज्ञे भवतात् मनः त्वयि शुभे भवरहिते इति छेदः । हे स्वामिनि ! ऐश्वर्यशालिनि ! जगतां लक्ष्मीं कामयते इति लक्ष्मीकामिनी । तस्यास्संबुद्धिः। जगतामैश्वर्यदानाभिलाषिणीत्यर्थः । भाः अस्या अस्तीति भावती तस्यास्संबुद्धिः । तेजस्विनीत्यर्थः । मनोज्ञे मनोहारिणि । शुभे