पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१४८

पुटमेतत् सुपुष्टितम्
138
अलंकारमणिहारे

गम्भीरा तां तथोक्ताम् । ‘निम्नं गभीरं गम्भीरमुत्तानं तद्विपर्यये’ इत्यमरः । ‘त्रिष्वागाधात्’ इत्युक्तेर्भेद्यलिङ्गता । पक्षे-- घनकरुणया नुत्तानां प्रेरितानामिति षष्ठीबहुवचनम् । एवमग्रेऽपि । 'नुत्तनुन्नास्तनिष्ठ्यूतविद्धक्षिप्तेरितास्समाः' इत्यमरः। नुदेर्निष्ठायां ‘नुदविदोन्दीत्राघ्राहीभ्योऽन्यतरस्याम्' इति नत्वविकल्पानुशासनात् निष्ठातस्य पूर्वस्य दस्य च न नत्वं, किंतु चर्त्वम् । भजे यशोभाभृताम् इति छेदः । यशश्च भा च यशोभे ताभ्यां भृतां पूर्णाम् । अत्र भाशब्दस्य द्वन्द्वे अल्पाच्तरत्वनिमित्तकपूर्वनिपाताभावो न दोषाय । ‘समुद्राभ्राद्धः, लक्षणहेत्वोः क्रियायाः’ इत्यादिनिवेशेन तस्य प्रकरणस्यानित्यताज्ञापनात् । यद्वा-- यशसो भा प्रकाशः तया भृतामिति विग्रहः । पक्षे-- भजेयेति छेदः । शोभां बिभ्रतीति शोभाभृतः तासाम् । सुबहु दानं वितरणं यस्यास्ताम् । पक्षे सुबहु ददतीति सुबहुदाः तासां 'आतोऽनुपसर्गे' इति कः । सरसीरुहमेव धाम स्थानं तेन धृतां कमलालयामित्यर्थः । पक्षे-- सरसीरुहाणां धाम त्विषं धरन्तीति तथोक्तानाम् । धृञः क्विप् । परं अतिमात्रं परां उत्तमां मादृशां मद्विधानां अवित्रीं पालयित्रीं श्रियं लस्मीं भजे सेवे । लट् । पक्षे-- श्रियं संपदं अवित्रीं अवतेस्तृन् । ‘न लोक’ इति षष्ठीनिषेधात्कर्मणि द्वितीया । मायाः श्रियः दृशः कटाक्षाः तासां मादृशां परंपरां रेखां भजेय सेवेय, लिङ् । अत्रोक्तयोर्विभक्त्योरेकवचनबहुवचनयोश्च श्लेषः । भजेयशोभेत्यत्र परंपरामित्यादौ च पदश्लेषश्चानुसन्धेयः ॥

 यथावा--

 दुरितभिदे सर्वविदे नतनिवहेष्टार्थकल्पभूमिरु