पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१५०

पुटमेतत् सुपुष्टितम्
140
अलंकारमणिहारे

 यथावा--

 प्रभवेऽखिलभुवनानां विभवे तत्तादृशे स्वमात्मानम् । सुरराजश्रीजीवनदयालवे ननु समर्पये महिते ॥ ९०२ ॥

 अत्रापि पूर्ववदेव श्लेषः। हे सुरराज! देवधीश! हे श्रीजीवन! श्रियो लक्ष्म्या जीवनभूत! श्रीर्जीवनं यस्य तस्य संबुद्धिर्वा हे श्रीनिवासेत्यर्थः । अखिलभुवनानां प्रभवे अधीश्वराय । विभवे व्यापकाय च । तत्तादृशे अवाङ्मनसगोचरस्वरूपस्वभावविभवायेति भावः । तत्तादृक्छब्दस्तादृक्छब्दसमानार्थकः । यथा तत्तुल्यशब्दस्तुल्यशब्दसमानार्थकः । सः तादृक् यस्य स तथोक्त इति वा । असदृशायेति तदर्थः । दयालवे कृपाशालिने ‘स्पृहिगृहि’ इत्यादिना कर्तर्यालुच्प्रत्ययः । ते तुभ्यं स्वं ‘स्वत्वमात्मनि सञ्जातं स्वामित्वं ब्रह्मणि स्थितम्' इत्युक्तप्रकारेण स्वभूतं आत्मानं समर्पयेमहि । संपूर्वकादर्पयतेर्लिङुत्तमबहुवचनम् ॥

 पक्षे-- अखिलभुवनानां प्रभवो जगत्कारणभूत इत्यर्थः । तस्मिंस्तथोक्ते । सुरराजश्रीजीवनदयालवे इति समस्तमेकं पदम् । सुरराजश्रिय इन्द्रैश्वर्यस्य जीवनः जीवयिता दयाया लवो लेशः यस्य तस्मिन्, प्रसिद्ध्यतीदं वैष्णवे पुराणे । महिते पूज्ये तत्तादृशे विभवे विभूतौ भगवत्यां श्रीमहालक्ष्म्यामित्यर्थः । श्रीभागवते-- ‘वक्षोनिवासमकरोत्परमं विभूतेः’ इति लक्ष्मीर्विभूतित्वेन हि व्यपदिश्यते । ननुरवधारणे । लक्ष्म्यामेवेत्यर्थः । स्वं आत्मानं समर्पये । संपूर्वकादर्पयतेर्लडुत्तमैकवचनम् । अत्र शेषिदंपत्योरात्मनिक्षेप उक्तः ॥