पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१६२

पुटमेतत् सुपुष्टितम्
152
अलंकारमणिहारे

'चोः कुः' इति कुत्वे 'इण्कोः’ इति स्यावयवसस्य षत्वम् । अत्र भक्षेर्भजेश्च यक्स्यप्रत्ययकृतं सारुप्यम् । यद्यपि प्रत्ययविधावुद्धेश्यत्वं प्रकृतित्वमिति भक्षिभज्योस्तिङ्निरूपितप्रकृतित्वात्तयोर्नैकरूप्यं, तथाऽपि प्रत्ययनियतपूर्ववृत्तित्वं तदित्यभ्युपगमेन भक्ष्येत्यनयोस्तिङ्पूर्ववृत्तितया प्रकृतिभूतयोरैकरूप्यमिति निर्वोढव्यम् । यद्वा प्रकृतिश्लेष इत्यस्याङ्गश्लेष इत्यर्थः । तथा सतीदृशोदाहरणस्यापि संग्रहो निरर्गळ एव, वक्ष्येत्यनयोस्तिङ्निरूपिताङ्गत्वेन तयोश्चैकरूप्यात् । 'यस्मात्प्रत्ययविधिस्तदादिप्रत्ययेऽङ्गम्' इति ह्यङ्गलक्षणम् ॥

 उक्तस्योभयविधप्रकृतिश्लेषस्य सङ्करोऽपि संभवति ।यथा--

 दृश्ये योगिवरैस्त्वयि निहितात्माऽहं त्वया दयार्द्रदृशा । त्वन्नाम वहन्नास्ये नरकाराते पुरा नरके ॥ ९१५ ॥

 योगिवरैः सुक्ष्मदर्शिभिः दृश्ये 'दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः’ इत्युक्तप्रकारेण द्रष्टुं योग्ये दृशेः ‘ॠदुपधात्' इति क्यप् । त्वयि निहितात्मा विन्यस्तात्मा अहं त्वया कर्त्रा दयार्द्रदृशा करणेन । यद्वा दयार्द्रदृशेति बहुव्रीहिः त्वयेत्यस्यैव विशेषणम् । दृश्ये इति आवृत्त्या योजना । इष्टो भवामीत्यर्थः । दृशेः कर्मणि यकि लडुत्तमैकवचनम् । आस्ये मुखे त्वन्नाम वहन् त्वन्नामोच्चारयन्निति यावत् । नरके निरये पक्षे वहन्नास्ये इत्यत्र न आस्ये इति छेदः । पुरेति निश्चयद्योतको निपातः । पुरा नास्ये इति योजना । निश्चयेन क्षिप्तो न भविष्यामीत्यर्थः । क्षेपणार्थकादस्यतेराङ्पूर्वकात्कर्मणि लडु-