पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१६४

पुटमेतत् सुपुष्टितम्
154
अलंकारमणिहारे

र्थः । पृथुशब्दादीयसुनि ‘र ऋतो हलादेर्लघोः' इति ऋकारस्य रेफादेशः । त्वत्प्रतिकूलस्तु तव घृणयेत्येतदत्रापि संबध्यते । घृणया जुगुप्सया ‘जुगुप्साकरुणे घृणे’ इत्यमरः । अनर्होऽयमिति त्वत्कर्तृकजुगुप्सयेत्यर्थः । साधीयान् आधिना सह वर्तत इति साधिः । अतिशयेन साधिः साधीयान् निरतिशयमनोव्यथ इत्यर्थः । भवेत् । तस्य त्वत्प्रतिकूलस्य विपत्तिनिवहोऽपि साधीयान् अतिशयेन बाढः अतिमात्रदृढ इत्यर्थः । बाढशब्दादीयसुनि ‘अन्तिकबाढयोर्नेदसाधौ’ इति साधादेश । 'गाढबाढदृढानि च' इत्यमरः । अत्र प्रथावत्पृथुशब्दयोः साधिबाढशब्दयोश्च प्रकृतेस्तद्धितप्रत्यये परे ऐकरूप्यम् ॥

 तिङ्तद्धितप्रकृतिप्रत्ययोभयश्लेषोऽपि संभवति । यथा--

 असुलभमाशासै कथममृतं श्रीशारदघी महानन्दात् । इत्यङ्ग मा त्रपिष्ठा इह कतिकति तेन नामृतं गमिताः ॥ ९१७ ॥

 अघमस्यास्तीत्यघी । नित्ययोगे मत्वर्थीय इनिः । नित्यदुःखीत्यर्थः । ‘अंहोदुःखव्यसनेष्वघम्' इत्यमरः । महानन्दात् 'स एको ब्रह्मण आनन्दः' इत्युक्तनिरवधिकानन्दात् । इदमुभयोरतिमात्रानानुरूप्यं द्योतयितुम् । श्रीशात् भगवतः असुलभं दुर्लभं अमृतं निश्श्रेयसं कथं आशासै अपेक्षिषीय । श्वेव देवभोग्यं पुरोडाशमिति भावः । ‘एत ऐ' इति लोडुत्तमस्य एकारस्य ऐआदेशः । इति एवं अङ्ग ! इदं कस्यचिद्वा स्वस्य वा संबोधनम् । मा त्रपिष्ठाः मा लज्जिष्ठाः ‘त्रपूष् लज्जायाम्' अस्माल्लुङि ऊदित्वाद्वैकल्पिक इट् । माङ्योगादडभावः । ईदृशोऽ-