पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१६६

पुटमेतत् सुपुष्टितम्
156
अलंकारमणिहारे

 यथा--

 कमिता श्रियो मदागः क्षमिता यत्रावभासते वितता । अमिता ममतापाळिश्शमितानेनाप्स्यते तथाऽभिमता ॥ ९१८ ॥

 श्रियः कमिता भगवान् । अनेन पुरुषकारसान्निध्यमुक्तम् । मदागः ममापराधं क्षमिता सोढा क्षमतेर्लुट् । ऊदित्त्वाद्वैकल्पिक इट् । तत्र हेतुमाह-- यत्रेति । यत्र यस्मिन् श्रीवल्लभे वितता विस्तृता क्षमितेति योजना । क्षमत इति क्षमी । क्षमेः ‘शमित्यष्टाभ्यो घिनुण्’ इति घिनुण् प्रत्ययः । ‘नोदात्तोपदेशस्य' इति वृद्धिनिषेधः । तस्य भावः क्षमिता महापराधसहिष्णुता अवभासते । अथ तत्कार्यमाह-- अमिता मम तापाळिः आध्यात्मिकादितापपरंपरा शमिता शमिष्यति । शाम्यतेर्लुट् । भगवता मदागसि क्षान्ते मम तापत्रयव्यथा नङ्क्ष्यत्येवेत्यर्थः । न केवलमेतावदेव, तथा अनेन मयेत्यर्थः । अभिमता शास्त्रसम्मता शमिता शाम्यतीति शमी पूर्ववदेव घिनुण्, वृद्ध्यभावश्च । तस्य भावः शमिता ‘शान्तो दान्तः' इति श्रुता शान्तता भगवदुपासनौपयिकीति भावः । आप्स्यते लप्स्यते । अत्र क्षमिता शमितेति प्रकृतिप्रत्ययसमुदायस्य तास्तल्प्रत्ययश्लेषनिमित्तकं सारूप्यमिति प्रत्ययश्लेषः ॥

 यथा--

 अग्राहि हृदा भगवान् दुर्विषयस्येन्द्रियं च निखिलं मे । धन्येनाभावि मया मम भवकान्तारचारदुःखमपि ॥ ९१९ ॥