पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१६७

पुटमेतत् सुपुष्टितम्
157
श्लेषसरः (२८)

 भगवान् हृदा मनसा मयेति शेषः । अग्राहि अगृह्यत ध्यात इत्यर्थः । ग्रहेः कर्मणि लुङि चिण् । मे मम निखिलं इन्द्रियं चक्षुरादिकं च इदं कर्तृ, दुर्विषयस्य कर्मणि षष्ठी । अग्राहि अग्राहकं भवतीति शेषः । ग्रहेः कर्तरि 'नन्दिग्रहि' इति णिनिः । अत एव मया धन्येन कृतार्थेन अभावि । भवतेर्भावे लुङि चिण् अभूयत । मम भवकान्तारचारदुःखमपि अभावि न भावि अभावि । इतःपरं पुनर्न भविष्यतीत्यर्थः । 'भविष्यतिगम्यादयः’ इति भविष्यत्यर्थे ‘भुवश्च' इत्यौणादिक इनिः । स च णित् । 'आङिणित्’ इत्यतो णिदित्यनुवृत्तेः । ततो नञ्समासः । अत्र अग्राहि अभावीत्युभयत्रापि चिण्णिन्योः प्रत्यययोरैकरूप्यम् ॥

 यथावा--

 जगतामादिरभूस्त्वं तव महिमा त्वनिदमादिवचसोऽपि । अभवस्त्वं फणिशैले त्वामाश्रित्याहमपि भवानि हरे ॥ ९२० ॥

 हे हरे! त्वं जगतां आदिः 'यतो वा इमानि’ इत्युक्तरीत्या कारणं अभूः आसीः । भवतेर्लुङ् मध्यमैकवचनम् । तव महिमा तु अनिदमादिवचसोऽपि अभूः अविषयः 'यतो वाचो निवर्तन्ते' इति श्रुतेः । नञो भूशब्देन समासः । त्वं एवंजगत्कारणभूत इति भावः । फणिशैले अभवः जगदवनार्थमर्चात्मना प्रादुरासीरित्यर्थः । भूधातोर्लङ्मध्यमैकवचनम् । त्वां आश्रित्य अहमपि विषयमरुमरीचिकाहरिणायमानहृदयोऽपीति भावः । अभवः पुनर्जन्मविधुरः भवानि प्रार्थनायां लोट् । भवितुमाशासे