पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१६८

पुटमेतत् सुपुष्टितम्
158
अलंकारमणिहारे

इत्यर्थः । अत्र अभू : अभवः इत्युभयत्रेऽपि सिप्सुप्रत्यययोरैकरूप्यम् ॥

 यथावा--

 आचार्याणामभिमुखमतनोर्मां दूरतोऽस्य बाधा मे । त्वरितं हरेर्ममाखिलदुरितं तस्याम्ब मां प्रियं तनुयाः ॥ ९२१ ॥

 हे अम्ब ! मां आचार्याणामभिमुखं अतनोः अकरोः । तनोतेर्लङि मध्यमैकवचनम् । अस्य अतनोरित्यावर्त्यते । अतनोः कामस्य बाधा मे मम दूरतो भवति । आचार्याभिमुख्येन कामादयो मां न स्पृशन्तीति भावः । मम अखिलं दुरितं पूर्वमुत्तरं चाघं हरेः अपनुदेः । हृञस्संभावनायां लिङ्मध्यमपुरुषैकवचनम् । मां तस्य हरेरित्येतदत्रावर्त्यते । हरेः भगवतः प्रियं 'सच मम प्रियः’ इत्युक्तरीत्या प्रीतिविषयं तनुयाः कुर्याश्च । तनोतेस्संभावनायां लिङ् । आचार्याभिमुख्यदात्री त्वं उत्तरपूर्वाघलोपविनाशपूर्वकं परमे व्योम्नि भगवन्नित्यकिंकरं कुर्या एवेति सम्भावये ॥

यो मे गर्भगतस्यापि वृत्तिं कल्पितवान् प्रभुः ।
शेषवृत्तिविधानाय स किं सुप्तोऽथवागतः ॥

इति न्यायादिति भावः । अत्र अतनोः हरेः इत्यत्र सिप्ङसोरैकरूप्यम् ॥

 यथावा--

 त्वामाश्रितस्य पातो न किंतु सोऽपि त्वया