पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१७०

पुटमेतत् सुपुष्टितम्
160
अलंकारमणिहारे

 खेलन्ती हरिहृदये तुदती विपदः प्रपुष्णती विभवान् । लक्ष्मीस्तच्चरणे वा रुन्धां मम चापलानि दीव्यन्ती ॥ १२३ ॥

 अत्र खेलन्ती दीव्यन्ती इत्यनयोः ‘शप्छ्यनोर्नित्यम्’ इति शीनद्योः परयोर्नित्यं नुम् । तुदती इत्यत्र तु न नुम् । ‘आच्छीनद्योर्नुम्’ इति विकल्पेन विहितत्वात्तस्य । रुन्धा निरुद्धानि करोतु कुरुतामिति चार्थः । 'रुधिर् आवरणे' अस्मादात्मनेपदिनो लोटि प्रथमपुरुषैकवचनम् । पक्षे तस्मादेव धातोः परस्मैपदिनो लोट्प्रथमपुरुषद्विवचनम् । अत्र खेलन्ती इत्यादिसुबन्तेषु रुन्धामिति तिङन्ते चैकवचनद्विवचनयोः श्लेषः । लिङ्गश्लेषोऽप्यत्र द्रष्टव्यः ॥

 यथावा--

 सुमहामहास्स्वयंभूकृतबहुधामान ऊर्जितार्चाविभयः । सुश्रीकमनास्सततं सर्वात्मानः परश्रियं सन्दधताम् ॥ ९२४ ॥

 अत्र श्रीपरवासुदेवस्य श्रीवेंकटाचलादिदिव्यदेशस्थार्चावताराणां च श्लेषः । प्रथमपक्षे-- सुमहत् महः तेजो यस्य स तथोक्तः । स्वयंभुवा वेधसा कृतः बहुधा बहुप्रकारः मानः पूजा यस्य सः । ऊर्जितौ अर्चा श्रीवेङ्कटाचलादिगतोऽर्चावतारः, विभवः रामकृष्णाद्यवतारश्च यस्य येन वा स तथोक्तः । सततं शोभना श्रीः लक्ष्मीः यस्मिंस्तत् सुश्रीकं मनो यस्य सः सुश्रीकमनाः। 'अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठि-