पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१७१

पुटमेतत् सुपुष्टितम्
161
श्लेषसरः (२८)

तम्’ इत्युक्तरीत्याऽनवरतमपि लक्ष्मीलालसमानस इत्यर्थः । सर्वेषामात्मा अन्तः प्रविश्य नियन्ता परः परवासुदेवः नः अस्माकं श्रियं सर्वप्रकारसमृद्धिं संदधतां संधत्ताम् । ‘दध धारणे' अस्माद्भौवादिकाल्लोट्प्रथमपुरुषैकवचनम् ।

 द्वितीयपक्षे तु— इमानि विशेषणानि बहुवचनान्तानि, विभव इति विशेष्यानुरोधात् । सुमहान् महः उत्सवः नित्योत्सवपक्षोत्सवादिः येषां ते । ‘मह उद्धव उत्सवः' इत्यमरः । अदन्तोऽयं महशब्दः । स्वयं आत्मना अनितरप्रेरणमित्यर्थः । भुवि कृतानि आश्रितानि बहूनि धामानि वेंकटाचलादिस्थानानि यैस्ते तथोक्ताः । ऊर्जिताः ऊर्जस्वलाः अर्चाः पूजाः प्रतिकृतयो वा येषां ते तथोक्ताः । ‘अर्चा पूजाप्रतिमयोः' इति मेदिनी । श्रिया लक्ष्म्याः कमनाः कामयितारः सुष्ठु श्रीकमनाः सुश्रीकमनाः । सुष्ठु लक्ष्म्याः अभिरूपा वा ‘कमनः कामुके कामेऽभिरूपेऽशोकपादपे' इति मेदिनी । सर्वेषां चेतनाचेतनानां आत्मानः विभवः प्रभवः जगदीश्वरा इत्यर्थः । तत्तद्दिव्यदेशार्चाबहुत्वप्रयुक्तं बहुवचनम् । सततं परश्रियं श्रेष्ठां संपदं संदधताम् । दधातेर्जौहोत्यादिकाल्लोट्प्रथमबहुवचनम् । अत्र सुमहामहा इत्यत्र सुबन्ते संदधतामित्यत्र तिङन्ते च प्रथमैकवचनबहुवचनयोः श्लेषः । स्वयंभूकृतेत्यादौ तु पदश्लेष इति वेदितव्यम् । परश्रियमित्यत्र समस्ततायां शकारस्य 'अनचि च' इति वैकल्पिकं द्वित्वम् ॥

 यथावा--

 सकृदपि वामित्रतया रघुनन्दन यस्त्वया पुर

 ALANKARA II
21