पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१७२

पुटमेतत् सुपुष्टितम्
162
अलंकारमणिहारे

स्क्रियतेऽलम् । भोक्ताचतुरश्राणां रसाभृतां प्राणदं सविषयं वाऽयम् ॥ ९२६ ॥

 हे रघुनन्दन ! यः पुमान् मित्रतया सुहृत्त्वेन पक्षे अमित्रतया असुहृत्त्वेन त्वया सकृदपि वा पुरस्क्रियते पूज्यते आद्रियत इति यावत् । पक्षे अभियुज्यत इत्यर्थः । ‘पुरस्कृतः पूजितेऽरात्यभियुक्तेऽग्रतः कृते’ इत्यमरः । सः अयं उक्तविध एष पुमान् । चतस्रः अश्रय कोटयो येषां तेषां तथोक्तानां 'स्त्रियः पाळ्यश्रिकोटयः' इत्यमरः । ‘सुप्रातसुश्व' इत्यादिना बहुव्रीहावजन्ततया निपातितोऽयम् । चतुर्दिगन्तविद्यमानानामिति यावत् । रसाभृतां भूपालानां प्राणदं शक्तिप्रदं विषयं देशं 'देशविषयौ' इत्यमरः । वाशब्दो भिन्नक्रमः । अलं भोक्ता वा भोक्ष्यत्येव पालयिष्यत्येवेत्यर्थः । ‘भुज पालनाभ्यवहारयोः' 'अस्माल्लुट् । ‘वा स्याद्विकल्पोपमयोरेवार्थे च तदव्ययम्’ इति विश्वः ॥

 अन्यत्र-- सः अमित्रतया अभियुक्तः पुमान् भोक्ता अचतुरः श्राणां इति छेदः । अलं अचतुरः अकुशलः । नभृता अभृता रसेन अभृता रसाभृता तां नीरसामित्यर्थः । श्राणां यवागूं 'यवागूरुष्णिका श्राणा' इत्यमरः । भोक्ता अभ्यवहर्ता पातेत्यर्थः । भुजेस्तृन् । अत एव ‘न लोक' इति निषेधात् श्राणेत्यत्र न कर्मणि षष्ठी किंतु द्वितीयैव । प्राणं द्यतीति प्राणदं असूच्छेदकम् ।

देहान्तरानिले प्राणो जीवात्मपरमात्मनोः ।
आयुरिन्द्रियसत्त्वेषु प्रणवे काव्यमर्मणि ॥

इति रत्नमाला । अयं अविद्यमानयकारं विषयं विषमित्यर्थः ।