पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१७३

पुटमेतत् सुपुष्टितम्
163
श्लेषसरः (२८)

शब्दार्थयोस्तादात्म्यं न प्रस्मर्तव्यम् । तद्वा भोक्ता । त्वदभियुक्तो दुर्गतो यत्र क्वा कदन्नाभ्यवहारेण जीवति । तथा जीवितुमनिच्छुर्गरळं वा पिबति । न तु त्वदग्रतः पराक्रमत इति भावः । अत्र चतुरश्राणां रसाभृतामित्यत्र षष्ठीबहुवचनद्वितीयैकवचनयोश्श्लेषः पदश्लेषसंकीर्णः । भोक्तेत्यत्र सुबन्तकृत्तिङोः श्लेषः । अयमित्यत्र पदश्लेषसंकीर्णः प्रथमाद्वितीययोर्विभक्त्योश्श्लेषश्च ॥

 यथावा--

 सर्वविदो भजतान्नश्चेतस्सुगुणादिमान्यदुवरीयान् । अप्रतिहतप्रभावान्महास्वभावान् दुरन्तदुरितनुदः ॥ ९२७ ॥

 अत्र भगवतो भागवतानां च श्लेषः । तथाहि-- वेत्तीति विदः, इगुपधलक्षणः कः । सर्वस्य विदः सर्वविदः सर्ववित् 'यस्सर्वज्ञस्सर्ववित्' इति श्रुतेः । सुगुणादिमान् सुगुणाः सत्यकामत्वादयः कल्याणगुणाः आदयो येषां ते सुगुणादयः आदिशब्देन स्वरूपरूपादीनां ग्रहणम् । तेऽस्य सन्तीति तथोक्तः । नित्ययोगे अतिशायने वा मतुप् । अप्रतिहता च सा प्रभा च तद्वान् । 'न तत्र सूर्यो भाति' इत्याद्युक्तसूर्याद्यभिभावुकदिव्यप्रभाशाली । तत्र हेतुः महती च सा स्वभा च तद्वान् महास्वभावान् लोकोत्तरस्वयंप्रकाशस्वरूपः न ह्यस्य प्रकाशस्सूर्यादेरिवान्याधीनः । यद्वा भाः प्रभावः ‘भाः प्रभावे च दीप्तौ च' इति मेदिनी । महाप्रभावशालीत्यर्थः । नुदतीति नुदः, इगुपधलक्षणः कः । दुरन्तं यद्दुरितं तस्य नुदः पूर्वोत्तराघनिर्धूनन इत्यर्थः । अतिशयेन उरुः वरीयान् उरुशब्दादीयसुनि