पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१७८

पुटमेतत् सुपुष्टितम्
168
अलंकारमणिहारे

किकालङ्कारो हि कङ्कणमञ्जीरादिः पाणिपादादिनिष्ठः पाणिपादाद्यलङ्कारतयैव व्यवह्रियते । इयमेव रीतिः काव्यगतालङ्कारेष्वपि । न च शब्दान्वयव्यतिरेकानुविधायित्वादस्य शब्दालङकारत्वमिति वाच्यम् । तथा सति सर्वेषामप्यलङ्काराणां तदन्वयव्यतिरेकानुविधायित्वेन शब्दालङ्कारताप्रसङ्गात् । न चाभङ्गश्लेषस्य एकवृन्तगतफलद्वयन्यायेन एकपदाश्रितार्थद्वयनिष्ठतयाऽर्थालङ्कारत्वं, सभङ्गस्य तु जतुकाष्ठन्यायेन शब्दद्वयसंश्लेषरूपत्वाच्छब्दालङ्कारत्वमिति सर्वस्वकाराद्यक्तं युक्तं, 'अर्थभेदेन शब्दभेदः' इति मते ‘अन्याय्यं चानेकार्थत्वम्' इत्युपपत्तिकबळिते अभङ्गश्लेषेऽपि सभङ्ग इव शब्दभेदस्य दुर्निवारतया शब्दयोरेव श्लेषस्य सुवचत्वात् । अत उभयं शब्दालङ्कार इति वा सभङ्गस्य शब्दालङ्कारत्वमभङ्गस्यार्थालङ्कारत्वमिति वा मतद्वयमप्ययुक्तम् । तस्मात् द्वयोरप्यर्थालङ्कारत्वमेव युक्तमिति । अन्ये तु-- चमत्कारे अर्थमुखप्रेक्षित्वादुभयोरप्यर्थालंकारत्वं, अनुप्रासयमकादेस्तु न चमत्कारेऽर्थमुखप्रेक्षित्वमिति न तेषामर्थालंकारत्वं अपितु शब्दवैचित्र्याच्छब्दालंकारत्वमेवेत्यप्याहुः ॥

 काव्यप्रकाशानुयायी जगन्नाथस्तु– “ श्रुत्यैकयाऽनेकार्थप्रतिपादनं श्लेषः । तच्च द्वेधा-- अनेकधर्मपुरस्कारेण एकधर्मपुरस्कारेण च । आद्यं द्वेधा--अनेकशब्दप्रतिभानद्वारा एकशब्दप्रतिभानद्वारा चेति त्रिविधश्श्लेषः । तत्राद्यस्सभङ्गः द्वितीयोऽभङ्ग इति वदन्ति । तृतीयस्तु शुद्धः । एवं त्रिविधोऽप्ययं प्रकृतमात्राप्रकृतमात्रप्रकृताप्रकृतोभयाश्रितत्वेन पुनस्त्रिविधः । तत्राद्ये भेदे द्वितीये च विशेष्यस्य श्लिष्टतायां कामचारः । तृतीयभेदे तु विशेषणवाचकस्यैव श्लिष्टत्वं न विशेष्यवाचकस्य तथात्वे शब्दशक्तिमूलध्वनेरुच्छेद एव स्यात् । विशेषणमात्रश्लि-