पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१७९

पुटमेतत् सुपुष्टितम्
169
श्लेषसरः (२८)

ष्टतायामपि प्रकृताप्रकृतधर्मिणोरुपादान एव श्लेषः । प्रकृतधर्मिमात्रस्योपादाने तु समासोक्तेरेव विषयः । तदित्थं प्रकृतमात्रविशेष्यकानेकार्थविशेषणं यत्र स एकः । एवमप्रकृतेत्यादि द्वितीयः । पृथगुपात्तप्रकृताप्रकृतोभयविशेष्यकनानार्थविशेषणं तृतीयः । एतदन्यतमत्वं च लक्षणं पर्यवसितम्” इत्यभाणीत् । तन्मतानुसारेण दिङ्मात्रमुदाह्रियते--

 तत्राद्यः प्रकृतमात्रविषयस्सभङ्गः श्लेषो यथा--

 जगदवति यस्य पाणिस्सुभव्यभावेत्रसत्तया दीव्यन् । शेषाहार्यादरणो विष्वक्सेनस्स शमयताद्विघ्नान् ॥ ९३१ ॥

 यस्य भगवतः पाणिः त्रसतो भावः त्रसत्ता न त्रसत्ता अत्रसत्ता तया अनुद्विग्नतया सुभव्यस्य जगत्क्षेमस्य भावे प्राप्तौ विषये ‘भू प्राप्तावात्मनेपदी’ इत्याधृषीयाद्भवतेर्घञ् । दीव्यन् जगत् अवति । पक्षे यस्य भगवत्सेनाधिनाथस्य विष्वक्सेनस्य सुभव्या अतिरमणीया भाः दीप्तिर्यस्य सः पाणिः वेत्रस्य सत्तया स्थित्या प्राशस्त्येन वा दीव्यन् जगदवति ‘यद्वेत्रशिखरस्पन्दे विश्वमेतद्व्यवस्थितम्’ इत्युक्तेः । शेषाहार्ये शेषाद्रौ आदरणं यस्य स तथोक्तः । पक्षे शेषे अनन्ते अहार्यं इतरैरनपनोद्यं आदरणं यस्य स तथा । स्वस्येव तस्यापि नित्यसिद्धतया तस्मिन्नविच्छिन्नप्रीतिरिति भावः । सः विष्वक्सेनो भगवान् 'विष्वक्सेनश्चतुर्भुजः' इत्यमरः । पक्षे भगवत्सेनानीः विघ्नान् विद्यानिष्पत्तिविरोधिनोऽन्तरायान् ऐहिकश्रेयोन्तरायांश्च शमयतात् । ‘शुक्लाम्बरधरं, यस्य द्विरद’ इति पद्याभ्यामुभयोरपि विघ्नोपशमनार्थमुपास्यत्वाभिधानात् । अत्र भगवद्विष्व-

 ALANKARA II
22