पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१८०

पुटमेतत् सुपुष्टितम्
170
अलंकारमणिहारे

क्सेनयोरुभयोरपि प्रकृतत्वात् प्रकृतमात्राश्रितोऽयमेकया श्रुत्या पदद्वयप्रतिभानद्वारा भिन्नधर्मपुरस्कारेणानेकार्थप्रतिपादनात्सभङ्गः ॥

 विशेष्ययोरश्लिष्टत्वेऽप्ययं संभवति, यथा--

 बहुधामरविद्रावणपरासुहृद्बाणभुजविततिलविता । भृगुनेता रघुनेता यदुनेता वा ममाविता भविता ॥ ९३२ ॥

 द्रावयतीति द्रावणः रवेः द्रावणः रविद्रावणः । बहुना धाम्ना तेजसा रविद्रावणः वह्निनेव स्वर्णपिण्डं स्वतेजसा विलापयतीत्यर्थः । महाप्रतापशालीति भावः । यथोच्यते मात्स्यादिषु पुराणेषु--

योऽसौ बाहुसहस्रेण ज्याघातकठिनत्वचा ।
भाति रश्मिसहस्रेण शारदेनेव भास्करः ॥

 इति,

सहस्रकरमत्येति सोऽयं करसहस्रवान् ।
तेजसा महता श्रीमान् कार्तवीर्योर्जुनो नृपः ॥

इति च । एवंविधो यः परः विरोधी 'परोऽरिपरमात्मनोः' इति विश्वः । अर्थात्कार्तवीर्य इत्यर्थः । तस्य असुहृतः रिपुप्राणापहारिणः बाणाः येषु ते असुहृद्बाणाः । इदं च विशेषणं ‘उत्ससर्जैकवेगेन पञ्चबाणशतानि यः' इत्येतदभिसंधायोक्तम् । असुहृदां रिपूणां बाणप्राया इति वा । ये भुजाः सहस्रसंख्याकाः तेषां विततेः समूहस्य लविता छेत्ता । भृगुनेता भार्गवो रामः । पक्षे बहुधा अमरान्विध्यतीत्यमरवित् , विध्यतेः क्विप् । यो रावणः तस्य परेषां रिपूणां असुहृतः प्राणापहारिणो बाणाः येषु ते तथोक्ताः भुजाः विंशतिसंख्याकाः तेषां विततेः