पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१८३

पुटमेतत् सुपुष्टितम्
173
श्लेषसरः (२८)

 भगवत्कृष्णद्वैपायनोभयविषयकोऽयमेकधर्मपुरस्कारेणानेकार्थप्रतिपादनाच्छुद्धः । अयमेवार्थश्लेष इति वदन्ति । महाभारताख्यप्रबन्धविख्यातयशस्त्वं प्रावृषेण्यजलदनीलत्वं सक्षान्नारायणत्वमित्येतान्युभयत्राप्येकरूपाण्येव धर्माणि । ‘कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम्' इति प्रमाणार्थोऽत्रानुसंहितः । अयं श्लिष्टविशेष्यकश्शुद्धः ॥

 अयमेव अश्लिष्टविशेष्यको विशेषणमात्रश्लिष्टो यथा--

 कलशोदधिराजोदरकलितोदयमर्यमातिशायिरुचि । हरिहृदयहारि रत्नं तच्च वधूरत्नमवतु मां प्रत्नम् ॥ ९३६ ॥

 अर्यमातिशायिरुचीति लक्ष्मीविशेषणं तु ‘आदित्यवर्णे तपसोऽधिजातः' इति श्रुतेः ॥

 एवमेते त्रयोऽपि भेदाः प्रकृतमात्रविषयाः प्रदर्शिताः ॥

 अप्रकृतविषया यथा--

 निरधावि चित्रभानुर्निरङ्कुशोष्माहविस्फुरद्धेतिः । जगदुल्लासिश्रीकृद्ध्वान्तध्वंसी तवौजसा भगवन् ॥ ९३७ ॥

 हे भगवन् ! निरङ्कुशं यथा स्यात्तथा ऊष्मणः अहः ऊष्माहं ग्रीष्मर्तुदिनं ‘राजाहः' इत्यादिना टच् । तस्मिन् विस्फुरन्त्यः प्रकाशमानाः हेतयः किरणाः येन यस्य वा स तथोक्तः । ‘स्फुरति स्फुलत्योर्निर्निविभ्यः' इति षत्वस्य विकल्पेन विधानात् इह वीत्युपसर्गात्परस्य स्फुरतेस्सस्य न षत्वम् । 'ग्रीष्मोष्मबाष्पा ऊष्माणः', 'हेतिर्ज्वालायुधांशुषु' इति च रत्न-