पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१८६

पुटमेतत् सुपुष्टितम्
176
अलंकारमणिहारे

 हृद्या वक्षस्स्था महापद्मा महती पूज्ये पद्मे करधृते यस्यास्सा तथोक्ता श्रीः यस्य स तथोक्तः । पक्षे हृद्या हृदयप्रिया महापद्मश्रीः महापद्माख्यनिधिसंपत् यस्य स तथा । नीला रुचिर्यस्य नीले नीलनाम्नि निधौ रुचिः अभिलाषो यस्येति च । कुन्दसहजः कुन्दकुसुमसदृशः तद्वद्धवलः वर: श्रेष्ठ: शङ्खः पाञ्चजन्यो यस्य स तथोक्तः, पक्षे कुन्दनिधेस्सहजौ तत्सहावस्थायिनौ वरशङ्खौ तन्नामानौ निधी यस्य स तथा । वियद्धुन्या आकाशगङ्गया विमलः विगमितजगत्कलुषो यो वृष इति गिरीशः अद्रिवरः तेन आप्तः प्राप्तः सः आप्तो येनेति वा । पक्षे वियद्धुनी गङ्गेव विमलो विशदः वृषः वृषभो यस्य स तथोक्तः । गिरीशो रुद्रः आप्तः प्रत्ययितो यस्य सः तस्याप्त इति वा ‘आप्तप्रत्ययितौ समौ’ इत्यमरः । त्र्यम्बकसख इत्यर्थः । भगवान् श्रीनिवासः धनदः कुबेर इव कनति दीप्यते । अत्र प्रकृताप्रकृतयोः भगवद्धनदयोरश्लिष्टत्वाद्विशेषणानां च श्लिष्टत्वाद्भवति तृतीयो भेदः । परं त्वयमुपमया संकीर्णः । यदि च भगवान् धनदो विलसतीति पठित्वा अप्रकृतांशमपि श्लेषग्रस्तं विधाय रूपकं क्रियते तदाऽपि प्रकृतविशेष्यस्य शौरेरश्लिष्टत्वादखण्डित एव श्लेषः । न चात्र समासोक्तिरिति भ्रमितव्यं, अप्रकृतधर्मिणोऽपि शब्दवाच्यत्वात् । यत्र त्वप्रकृतव्यवहार एव शब्दशक्तिं सहेतापि न त्वप्रकृतधर्मी तत्र समसोक्तेरिष्टेः ॥

 अत्र विचार्यते—अयं चालंकारः प्रायेणालंकारान्तरस्य विषयमभिनिविशते । तत्र किमस्य बाधकत्वं स्यात् आहोस्वित्संकीर्णत्वं उताहो बाध्यत्वमिति । अत्राहुरुद्भटादयः-- "येन नाप्राप्ते य आरभ्यते स तस्य बाधकः” इति न्यायेनालंकारा-