पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१८८

पुटमेतत् सुपुष्टितम्
178
अलंकारमणिहारे

न हीह हरिहरयोर्भगवदिन्द्रयोर्वा सादृश्यं प्रतिपिपादयिषितम् । नापि चात्रैकश्रुत्याऽर्थद्वयोपादानमन्तरेणान्यत्किंचिच्चमत्कारमुन्मेषयति । येनालंकारान्तरमभ्युपगच्छेम । एकश्रुत्याऽर्थद्वयोपादानं तु श्लेष एव । एवंच सावकाशत्वाच्छ्लेषस्य नालंकारान्तरापवादकत्वं युक्तम् । अत एव उपमादीनां प्रतिभानमात्रमिति यदुक्तं तदपि न संगतं गुणक्रियादेरिव शब्दमात्रस्यापि समानधर्मत्वेनोपमायां तावद्बाधकाभावात् । अत एव 'सकलकलं पुरमेतज्जातं संप्रति सुधांशुबिम्बमिव’ इत्यत्र शब्दमात्रसाम्येऽप्युपमेति सांप्रदायिकाः । तदुक्तं रुद्रटेन--

स्फुटमर्थालंकारावेतावुपमासमुच्चयौ किंतु ।
आश्रित्य शब्दमात्रं सामान्यमिहापि संभवतः ॥

इति । एवमेवालंकारान्तरस्यापि श्लेषविषये पारमार्थिक्येव सत्ता न प्रातिभासिकी । प्रत्युत श्लेषस्यैव प्रतिभानमात्रमिति वक्तुं युक्तं पूर्णोपमाया विषयस्य सर्वस्यापि त्रिविधश्लेषेणाक्रान्तत्वान्निरवकाशतयाऽस्य सावकाशस्य स्वविषये बाधौचित्यात् । ‘समरार्चितोऽप्यमरार्चितः' इत्यादौ श्लेषस्य तैमिरिकचन्द्रद्वयवत्प्रतिभानमात्रमेव । न त्वलंकारत्वं तज्जीवातोर्द्वितीयार्थस्याप्रतिष्ठानात् । विरोधस्य त्वाभासरूपस्याप्यलंकारत्वं न तु श्लेषस्येति स्फुटमेव । तस्मादेवमादौ श्लेषप्रतिभयोत्पाद्यो विरोध एवालंकारः । न तु विरोधप्रतिभयोत्पद्यश्श्लेषः । एवं--

सद्वंशमौक्तिकमणे विद्वन्मानससारस ।
नाल्पः कविरिवास्वच्छश्लोको देव महान् भवान् ॥

इत्यत्र पूर्वार्धे श्लेषप्रतिभयोत्पाद्यं रूपकमेव, न तु रूपकप्रतिभयोत्पाद्यश्श्लेषः । उत्तरार्धे व्यतिरेकोऽप्येवम् । किंच प्रत्येकं तत्तद्रूपपुरस्कारेण कस्याप्यलंकारस्य नास्ति श्लेषविषये नाप्रा-