पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१९१

पुटमेतत् सुपुष्टितम्
181
श्लेषसरः (२८)

कृतार्थाभिधाने पश्चात् स्फुरतीति चेत् कामं गूढश्लेषो भवतु । अस्ति चान्यत्रापि गूढश्लेषः" इत्युक्त्वा ‘अयमतिजरठाः’ इत्यादिकं गूढश्लेषतयोदाहार्षुः ॥

 अयं हि तेषामाशयः-- प्रकरणेन प्रकृतार्थतात्पर्यग्रहेण तद्गोचरशब्दबोधे जनिते पश्चादप्रकृतार्थस्य बोधोदयात्कुतो न व्यङ्ग्यत्वमिति न शङ्कनीयम् । पश्चात्तत्तदर्थगोचरशक्त्यन्तरोन्मीलनेनाप्रकृतार्थस्य स्फुरणेऽपि न व्यङ्ग्यत्वम् । पश्चात्प्रतीत्या हि गूढश्लेष इति भण्यत इति ॥

 परे तु — ‘प्रकरणादेरप्रकृतगोचराभिधासामर्थ्यप्रतिबन्धकत्वे द्वितीयस्मिन्नर्थे यत्र नाभिधा संक्रामति तत्रापि यदि संक्रामकशब्दसमभिव्याहारस्स्यात् तदा प्रकरणादेस्तेन कुण्ठनशक्तौ प्रतिहतायां पूर्वं बाधिताऽप्यभिधाशक्तिः प्रतिप्रसूयत इति तया अप्रकृतार्थस्फूर्तिरिति नासौ ध्वनेर्विषयः । यथा--

 इह पद्मिनी सुहसिता कामयते स्वप्रियं रमावासम् । इति निशमयन्नुपश्रुतिमिच्छुः पद्मावतीं हरिर्मुमुदे ॥ ९४१ ॥

 इदं हि प्रत्यूषे प्रफुल्लां कमलिनीं विलोक्य केनचित्कंचित्प्रति कथितं पद्मिन्याख्यायामाकाशराजपुत्र्यामनुरक्तस्य तत्समागमः कथं स्यादिति चिन्तयतो भगवतश्रीनिवासस्योपश्रुतिरूपं सदानन्दावहमासीदित्येतदर्थप्रतिपादकं वचनम् । अत्र सुहसिता सम्यग्विकासिता पद्मिनी कमलिनीलता स्वस्य आत्मनः प्रियं अभीष्टं रमायाः श्रियः वासं स्थितिं कामयते अभिलष्यतीत्यर्थे प्रकरणादिना यद्यप्येते नियमिताभिधाश्शब्दाः, तथाऽपि सा द्वितीयस्मिन्नर्थे विवरिष्यमाणे निरुद्धा सती उप-