पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१९२

पुटमेतत् सुपुष्टितम्
182
अलंकारमणिहारे

श्रुतिमित्यनेन शब्देन प्रत्युज्जीविता । इह सुहसिता समन्दस्मिता पद्मिनी आकाशराजतनया पद्मावत्यपरनामा पद्मिनी रमावासं भगवन्तं श्रीनिवासं स्वप्रियं स्ववल्लभं कामयते स्ववल्लभो भूयादित्यभिलष्यतीति द्वितीयोऽर्थः प्रकरणादिना निरुद्धाभिधाशक्तिकशब्दप्रतिपाद्यमानो ध्वनिपथगमनाय प्रस्थित उपश्रुतिशब्देन सूचिततया ततो गळहस्तितोऽभिधाव्यापारमासाद्य वाच्यतामापन्नश्श्लेषालंकारविषयः । अन्यत्र तु ताद्दशाभिधाप्रत्युज्जीवनाभावे अर्थान्तरध्वनिपद्धतिमध्यास्ते’ इति वदन्ति ॥

 अयमलंकारान्तरासंकीर्णतया श्लेषस्य विविक्तो विषयोऽपि भवति । न चात्राप्रस्तुतप्रशंसाशङ्का, कस्यचिद्वचने कमलिनीवृत्तान्तस्य प्रकृतत्वेनाप्रस्तुतेन प्रस्तुतस्य गम्यत्वाभावात् । न च तर्हि प्रस्तुतेनाप्रस्तुतस्य गम्यत्वात्समासोक्तिरस्त्विति वाच्यं, पद्मिनीति विशेष्यस्यापि श्लिष्टत्वेन तदनवतारात् । नापि प्रकृताप्रकृतयोरेकधर्मसंबन्धाद्दीपकमस्त्विति वाच्यम्, उदासीनस्य कस्यचिद्वक्तुः प्रकृताप्रकृतयोर्धर्मैक्यस्य विवक्षावैधुर्यात् । प्रकृताप्रकृतयोर्विशेष्ययोः पृथगनुपादानाच्च । तत्तु तयोः पृथगुपादान एवोन्मिषति । नापि गूढोक्तिः, अन्योद्देशेनान्यं प्रति कथनस्यात्राविवक्षणात् । तस्मादयं श्लेषस्यैव विविक्तो विषय इति दिक् । विस्तरस्तु प्राचां निबन्धेषु द्रष्टव्यः ॥

इत्यलंकारमणिहारे श्लेषालंकारसरोऽष्टाविंशः.