पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१९३

पुटमेतत् सुपुष्टितम्
183
श्लेषसरः (२१)

अथाप्रस्तुतप्रशंसासरः.


 प्रस्तुतविशेषणसाम्यमाश्रित्य समासोक्तिर्निरूपिता । तत्प्रसक्त्या विशेषणाश्रयपरिकरादिकं निरूपितम् । अधुना पुनस्तद्वैपरीत्येनाप्रस्तुतप्रशंसोच्यते--

स्यात्प्रस्तुतस्य गमकं यत्राप्रस्तुतवर्णनम् ।
अप्रस्तुतप्रशंसाख्या सैषाऽलंकृतिरुच्यते ॥ ८५ ॥

 यत्राप्रस्तुतवृत्तान्तवर्णनं प्रस्तुतवृत्तान्तमवगमयति सैषा अप्रस्तुतप्रशंसोच्यते । समासोक्तौ तु प्रस्तुतेनाप्रस्तुतप्रतीतिरिति विशेषः । प्रशंसनं चात्र वर्णनमात्रं न तु स्तुतिः ‘अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः' इत्यादावव्याप्त्यापत्तेः ॥

कार्ये हेतौ तथा व्याप्ये व्यापके प्रस्तुतेऽन्यगीः ।
समे समस्य चेत्येवं सैषा भवति पञ्चधा ॥ ८६ ॥

 अप्रस्तुतवृत्तान्तवर्णनेन प्रस्तुतावगतिश्च संबन्धे सति भवति । संबन्धश्च कार्यकारणभावः सामान्यविशेषभावः सारूप्यं वा संभवति । सप्तम्यन्तेषु पदेषु प्रस्तुते इत्येतदन्वेति । अन्यगीः तदन्योक्तिः । तथाच कार्ये प्रस्तुते कारणस्य, कारणे प्रस्तुते कार्यस्य, व्याप्यव्यापकशब्दौ विशेषसामान्यपणें । विशेषे प्रस्तुते सामान्यस्य, सामान्ये प्रस्तुते विशेषस्योक्तिरिति चत्वारो भेदाः । समे प्रकृते समस्येति पञ्चमः । यदाहुः--

कार्ये निमित्ते सामान्ये विशेषे प्रस्तुते सति ।
तदन्यस्य वचस्तुल्ये तुल्यस्येति च पञ्चधा ॥