पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१९४

पुटमेतत् सुपुष्टितम्
184
अलंकारमणिहारे

 इति । तत्र कार्ये प्रस्तुते कारणस्योक्तिर्यथा--

 हृतसर्वस्वा सरसिजराजी मुरवैरिमुखकृते विधिना । तामरसतां दधानां तदाहुरेनामुदारतरधिषणाः ॥ ९४२ ॥

 तत् तस्मात् तामेनां सरसिजराजीम् । अरसतां नीरसतां निस्सारतामिति यावत् । पक्षे तामरसतां तामरसत्वं दधानां आहुः। स्फुटमन्यत् । अत्र कमलराजीगततया संभाव्यमानेन श्रीनिवासदिव्यवदनारविन्दनिर्माणार्थं सारांशहरणेन तत्कारणेन तत्कार्यरूपो वर्णनीयतया प्रस्तुतश्श्रीनिवासदिव्यवदनारविन्दगतो लोकोत्तरसौन्दर्यसौगन्ध्यसौकुमार्यादिविशेषः प्रतीयत इति कारणनिबन्धनाप्रस्तुतप्रशंसेयम् । श्लेषातिशयोक्तिसंकीर्णा ॥

 यथावा--

 सारहरणाय खाता वाताशनगिरिचिकीर्षुणा विधिना । देवेन निखिलशैलास्तन्नूनमनन्तदेवखातबिलाः ॥ ९४३ ॥

 अत्राप्रस्तुतनिखिलशैलनिष्ठतया संभाव्यमानेन शेषाद्रिसर्जनार्थसारांशहरणेन प्रस्तुतश्शेषाद्रिनिष्ठः कोऽपि निखिलकुलाचलातिशायिमहिमातिशयः प्रतीयते । अनन्तानि अपरिच्छिन्नानि देवेन देवैश्च खातानि बिलानि येषां ते ‘देवखातबिले गुहा' इत्यमरः । देवखातबिलशब्दौ व्यस्तौ गुहावाचिनाविति केचित् । समस्त एवायं देवखातबिलशब्दस्तद्वाचीत्यन्ये ॥