यथावा--
द्युतिसर्वस्वं तटितामादय विधिस्तवाम्ब तनुमतनोत् । क्षणरुचयो विद्युत इति ता एता जगदिरे ततः कविभिः ॥ ९४४ ॥
क्षणरुचयः अत्यल्परोचिषः अनुपदमेव विगता द्युत् द्युतिर्यासां तास्तथोक्ताः विशेषेण द्योतमाना इति वस्तुस्थितिः ॥
एवम्--
तव दिव्यवपुस्स्रष्टुं हृतसारो वेधसाऽहिशैलमणे । नूनं हरिमणिरखिलो विदिता सुतरामसारताऽस्य ततः ॥ ९४५ ॥
इत्यत्रापि कारणनिबन्धनाऽप्रस्तुतप्रशंसा द्रष्टव्या । सुतरां असारता निस्सारता । सुतरा अतिशोभना मसारता मसारनामतेति वस्तुस्थितिः । ‘मसार इन्द्रनीले स्यात्' इत्यवोचाम प्रागेव ॥
कारणे प्रस्तुते कार्याभिधानं यथा--
आदौ सुमुखा विबुधैरानीता तत्पुरस्सरत्वमपि । पश्चाद्भीतौदार्यात्तवसुरभिरगाद्विसर्गमेवान्ते ॥
हे भगवन्! सुरभिः कामगवी आदौ त्वन्महौदार्यनिशमनात्पूर्वं सुमुखा पृथग्जनवर्ण्यमाननिजवादान्यकोत्कर्षनिशमनजनितहर्षमूलकसौमुख्यशालिनी । पक्षे सुरभिशब्दे स्ववाचके आदौ सुः सुवर्णः मुखं प्रधानं यस्यास्सा ‘मुखं प्रधाने प्रारम्भे वक्त्रे निस्सरणेऽपि च’ इति रत्नमाला । तत् सुमुखात्वादेव