पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१९६

पुटमेतत् सुपुष्टितम्
186
अलंकारमणिहारे

हेतोः विबुधैः गुणज्ञैः देवैः पुरस्सरत्वं वदान्याग्रेसरत्वं पुरस्कारं वा आनीता प्रापिता । अन्यत्र तत्पुर इति समस्तं पदम् । तस्य सुवर्णस्य पुरः अग्रतः अनन्तरमित्यर्थः । सरत्वं रेफसाहित्यं आनीता । पश्चात् तव श्रीनिवासस्य भवतः औदार्यात् । 'य आत्मदा बलदा’ इत्यादिश्रुतिभिः ‘तदन्यः को महोदारः' इत्यादिपुराणवचनैश्च जेगीयमानादिति भावः । भीता निजौदार्यप्रथाकुण्ठनसंभावनात्त्रस्ता । पक्षे पश्चात् रेफानन्तरं औदार्यात् निरर्गळत्वादिति यावत् । भीता भिवर्णेन इता युक्ता । अत एव अन्ते भयदर्शनादनन्तरं विसर्गं एवं त्रस्ता नास्माभिस्संभावनीयेति विबुधकृतं विसर्जनं अगात् त्यक्ताऽभूदित्यर्थः । पक्षे अन्ते स्ववाचकशब्दान्ते विसर्गं विसर्जनीयं अगात् । सुरभिरिति शब्दस्य तथात्वादेवमुक्तम् । अत्राप्रस्तुतेन औचित्यात्संभाव्यमानेन सुरभिभयादिकार्येण तत्कारणभूतः श्रीनिवासमहौदार्यस्यानितरसाधारणो महिमा प्रत्याय्यत इतीयं कार्यनिबन्धनाप्रस्तुतप्रशंसा श्लेषातिशयोक्तिसंकीर्णा ॥

 यथावा--

 विहरन्त्या दिवि भवतः कीर्तिमराळ्या प्रसूतमवदातम् । पेशीनिवहं मन्ये तारासमुदयमिमं मुराराते ॥ ९४७ ॥

 पेशीनिवहं अण्डनिकरं ‘पेशीकोशो द्विहीनेऽण्डम्’ इत्यमरः । अत्राप्रस्तुतस्य तारासमुदयस्य भगवत्कीर्तिहंसीप्रसूतपेशीनिवहत्वोत्प्रेक्षणेन तत्कारणीभूतप्रस्तुतभगवत्कीर्तिधावळ्यातिशयो लोकोत्तर इति प्रतीयते ॥