पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१९७

पुटमेतत् सुपुष्टितम्
187
अप्रस्तुतप्रशंसासरः (२८)

 यथावा--

 अन्तर्वत्न्या फणिगिरिशिरोमणे रोचिषां प्ररोहेण । एते द्यवा प्रसूताः पोतास्स्फीता घनाघनव्राताः ॥ ९४८ ॥

 भगवतो रोचिषां तेजसां प्ररोहेण अङ्कुरेण अन्तर्वत्न्या गर्भिण्या द्यवा दिवा 'द्योदिवौ द्वे स्त्रियामभ्रम्' इत्यमरः । स्पष्टमन्यत् । अत्राप्यप्रस्तुतानां घनाघनव्रातानां भगवत्तनूरुचिप्ररोहगर्भितद्योप्रसूतार्भकत्वेन संभावनात्तत्काराणीभूतभगवत्तनुरुचिप्ररोहेऽत्युत्तमश्यामलिमभूमा प्रत्याय्यते । समासोक्तिसंकीर्णेयम् । पूर्वा तु रूपकसंकीर्णा ॥

 यथावा--

 अब्धौ समुद्भवन्त्या श्रियः प्रसृमराः पदाब्जरुचिकणिकाः । अन्योन्यतरङ्गाहतिपुञ्जीभूताः प्रवाळतां याताः ॥ ९४९ ॥

 अत्रावतारसमये जलधौ प्रसृतानां श्रीमहालक्ष्मीचरणारविन्दरुचिकणिकानामन्योन्यतरङ्गास्फालनवशेन सूक्ष्मतमसिकताफेनलवादिवत्पुञ्जीभूतानां परिणामतया संभाव्यमानाभिः प्रवाळलताभिः कार्यभूताभिस्तत्कारणभूतश्रीचरणारविन्दरुचेस्सर्वातिशाय्यरुणिमभूमा प्रतीयते ॥

 यथावा--

 शौरे भवत्प्रतापात्क्षोदिष्ठौ द्वौ स्फुलिङ्गकौ स्फुटितौ । वियति रविस्तत्रैकः पयसि पयोधेः परस्तु बडबाग्निः ॥ ९५० ॥