पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१९८

पुटमेतत् सुपुष्टितम्
188
अलंकारमणिहारे

 अत्राप्रस्तुतयो रविबडबानलयोर्भगवत्प्रतापकार्यभूतस्फुलिङ्गकत्वोत्प्रेक्षया प्रस्तुते तदुपादानकारणभूते भगवत्प्रतापे अनन्तकोटिसहस्रांशुबडबानलातिशाय्यौज्ज्वल्यं गम्यते । अत्र प्रतापस्य महाग्नित्वं गम्यते ॥

 यथावा--

 ब्रह्माण्डभाण्डपूर्णे भगवन्भवदीयशुभयशःपयसि । विलसन्ति बुद्बुदा इव तारा राराष्टि फेनवज्ज्योत्स्ना ॥ ९५१ ॥

 अत्राप्रस्तुतानां ताराज्योत्स्नानां भगवद्यशोदुग्धकार्यभूतबुद्बदफेनत्वसंभावनेन प्रस्तुतस्य भगवद्यशोदुग्धस्य निरतिशयो वैशद्यविशेषः प्रतीयते ॥

 यथावा--

 च्यावितवरवर्णस्त्वद्यशसा कथमप्यधश्शिरा निपतन् । विन्दति वृषशैलेन्दो विभावरीशश्शरीरभावित्वम् ॥ ९५२ ॥

 हे वृषशैलोन्दो! अनेन प्रसिद्धेन्द्वपेक्षयाऽस्य वैलक्षण्यं गम्यते । विभावरीशः चन्द्रमाः त्वद्यशसा च्यावितः च्युतिं प्रापितः वरः श्रेष्ठः वर्णः धवलिमा यस्य स तथोक्तः वैवर्ण्यं प्रापित इत्यर्थः । यशसा च्यावितवर्णत्वकथनेन क्लीबपराभूतताद्योतकेनातिमात्रदुस्सहदुःखत्वं द्योत्यते । अत एव अधश्शिराः निपतन् सन् चन्द्रमसोऽस्ताचलाभिमुख्यावसरे विपर्यस्ततया दृश्यमानत्वादधश्शिरोनिपतनोक्तिः । कथमपि दूरगमनादियत्नगौरवेणेत्यर्थः । 'कथमादि तथाऽप्यन्तं यत्नगौरवबाढयोः' इत्यु-