अत्रेदं बोद्धव्यं-- परिकराङ्कुरो नालंकारान्तरं भवितुमर्हति साभिप्रायपदविन्यासः परिकर इति तं लक्षयित्वा विशेषणविशेष्यपदत्वाभ्यां तस्य द्वैविध्याभिवर्णनेऽस्य तदवान्तरभेदत्वसंभवात् । विच्छित्तिवैलक्षण्याधीनं ह्यलंकारवैलक्षण्यं, न ह्येकवाक्यगतपदसाभिप्रायत्वनिबन्धने तदस्तीति । अयं चालंकार एकावळीकारादिभिर्लक्षितः । प्राञ्चस्तु प्रकाशकारादयो नालक्षयन्नमुम् ॥
इत्यलंकारमणिहारे परिकराङ्कुरसरस्सप्तविंशः.
अथ श्लेषसरः (२८).
वर्ण्यावर्ण्योभयालम्बी श्लेषोऽनेकार्थसंश्रयः।
अनेकार्थशब्दविन्यासश्श्लेषः। स च त्रिविधः--प्रकृतविषयः, अप्रकृतविषयः, प्रकृताप्रकृतविषयश्चेति । त्रिविधोप्ययं सभङ्गाभङ्गभेदेन पुनस्त्रिविध इति षड्विधः । तत्राद्यः प्रकारो यथा--
अहिगिरिपतिहृदयङ्गमवृत्तिरुदन्वत्सुताधिभूर्जगताम् । शुभकृदलं नः कुरुतां परितान्तानां श्रियं भवे चरताम् ॥ ८१७ ॥
अहिगिरिपतिः शेषनामाद्रिवरः तस्मित् हृदयंगमा हृद्या वृत्तिः स्थितिर्यस्य स तथोक्त इति भगवत्पक्षे । श्रीपक्षे तु अहिगिरिपतेः वेंकटाद्रिनेतुः श्रीनिवासस्य हृदयंगमा वक्षोऽधिगता वृत्तिः वर्तनं यस्यास्सेति । जगतां शुभकृत् । उदन्वत्सुतायाः