पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२००

पुटमेतत् सुपुष्टितम्
190
अलंकारमणिहारे

त्कारणभूतप्रस्तुतश्रीनिवासाधरमणिशोणिमातिशयप्रत्यायकमितीयमपि कार्यनिबन्धनाऽप्रस्तुतप्रशंसैव ॥

 यथावा--

 प्रथमं मधुरिमभूम्ना प्रथिता मधुमथनविधुमुखि मधूळी । त्वदधरसुधाविधूता धूळ्यभवत्प्रथमभूमविधुरतया ॥ ९५४ ॥

 हे मधुमथनविधुमुखि! भगवद्वल्लभे! इदं च मधूळीविधूननपाटवमदसीयाधरसुधाया अभिव्यनक्ति । प्रथमं अधरसुधाकर्तृकविधूननात्पूर्वं मधुरिमभूम्ना माधुर्यातिशयेन प्रथिता मधूळी मकरन्दः त्वदधरसुधाविधूता सती प्रथमः आदौ स्थितः यो भूमा माधुर्योत्कर्षः तेन विधुरतया विश्लिष्टतया धूळी पांसुभूता अभवत् निस्साराऽभूदिति यावत् । पक्षे-- प्रथमं भवतीति प्रथमभूः आदौ विद्यमानः यो मः मवर्णः तेन विधुरतया धूळीति निष्पन्ना मधूळीशब्दो मकारोत्सारणे तथा निष्पद्यत इत्यर्थः । अत्र संभाव्यमानाप्रस्तुतमधूळीधूळीभवनरूपकार्येण तत्कारणभूतप्रस्तुतजगज्जनन्यधरसुधामधुरिमोत्कर्षलोकोत्तरत्वावगतिः। अत्रापि कार्यकारणभावः प्रयोज्यप्रयोजकभावरूप एव । श्लेषसंकीर्णत्वं पूर्ववदेव ॥

 यथावा--

 त्वद्गतिलीलाऽवमतस्सेवित्वाऽलं विषं जगज्जननि । क्षीबोऽपि राजहंसः क्लीबत्वं प्रथयति स्म साध्वेव ॥ ९५५ ॥